वानरान् वानरैरेव जघ्नुस्ते नैर्ऋतर्षभाः। राक्षसान् राक्षसैरेव जघ्नुस्ते वानरा अपि
आक्षिप्य च शिलाः शैलाञ्जघ्नुस्ते राक्षसास्तदा। तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः
निर्जघ्नुः शैलशृङ्गैश्च बिभिदुश्च परस्परम्। सिंहनादान् विनेदुश्च रणे राक्षसवानराः
छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः। रुधिरं प्रसृतास्तत्र रससारमिव द्रुमाः
रथेन च रथं चापि वारणेनापि वारणम्। हयेन च हयं केचिन्निर्जघ्नुर्वानरा रणे
क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः। राक्षसा वानरेन्द्राणां बिभिदुः पादपान् शिलाः
विकीर्णाः पर्वतास्तैश्च द्रुमच्छिन्नैश्च संयुगे। हतैश्च कपिरक्षोभिर्दुर्गमा वसुधाभवत्
ते वानरा गर्वितहृष्टचेष्टाः संग्राममासाद्य भयं विमुच्य। युद्धं स्म सर्वे सह राक्षसैस्ते नानायुधाश्चक्रुरदीनसत्त्वाः
तस्मिन् प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु वलीमुखेषु। निपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्च नेदुः
ततो हयं मारुततुल्यवेग- मारुह्य शक्तिं निशितां प्रगृह्य। नरान्तको वानरसैन्यमुग्रं महार्णवं मीन इवाविवेश
स वानरान् सप्त शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद। एकः क्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुङ्गवानाम्
ददृशुश्च महात्मानं हयपृष्ठप्रतिष्ठितम्। चरन्तं हरिसैन्येषु विद्याधरमहर्षयः
यावद् विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः। तावदेतानतिक्रम्य निर्बिभेद नरान्तकः
ज्वलन्तं प्रासमुद्यम्य संग्रामाग्रे नरान्तकः। ददाह हरिसैन्यानि वनानीव विभावसुः
यावदुत्पाटयामासुर्वृक्षान् शैलान् वनौकसः। तावत् प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः
दिक्षु सर्वासु बलवान् विचचार नरान्तकः। प्रमृद्नन् सर्वतो युद्धे प्रावृट्काले यथानिलः
न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं भयात्। उत्पतन्तं स्थितं यान्तं सर्वान् विव्याध वीर्यवान्
एकेनान्तककल्पेन प्रासेनादित्यतेजसा। भग्नानि हरिसैन्यानि निपेतुर्धरणीतले
वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम्। न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम्
पततां हरिवीराणां रूपाणि प्रचकाशिरे। वज्रभिन्नाग्रकूटानां शैलानां पततामिव
ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः। ते स्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे
प्रेक्षमाणः स सुग्रीवो ददृशे हरिवाहिनीम्। नरान्तकभयत्रस्तां विद्रवन्तीं यतस्ततः
विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम्। गृहीतप्रासमायान्तं हयपृष्ठप्रतिष्ठितम्
दृष्ट्वोवाच महातेजाः सुग्रीवो वानराधिपः। कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम्
गच्छैनं राक्षसं वीरं योऽसौ तुरगमास्थितः। क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय
स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्तदा। अनीकान्मेघसंकाशादंशुमानिव वीर्यवान्
शैलसंघातसंकाशो हरीणामुत्तमोऽङ्गदः। रराजाङ्गदसंनद्धः सधातुरिव पर्वतः
निरायुधो महातेजाः केवलं नखदंष्ट्रवान्। नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद् वचः
तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि। अस्मिन् वज्रसमस्पर्शं प्रासं क्षिप्र ममोरसि
अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः। संदश्य दशनैरोष्ठं निःश्वस्य च भुजंगवत्। अभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः