स रराज रथे तस्मिन् राजसूनुर्महाबलः। वृतो नैर्ऋतशार्दूलैर्वज्रपाणिरिवामरैः
हयमुच्चैःश्रवःप्रख्यं श्वेतं कनकभूषणम्। मनोजवं महाकायमारुरोह नरान्तकः
गृहीत्वा प्रासमुल्काभं विरराज नरान्तकः। शक्तिमादाय तेजस्वी गुहः शिखिगतो यथा
देवान्तकः समादाय परिघं हेमभूषणम्। परिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन्
महापार्श्वो महातेजा गदामादाय वीर्यवान्। विरराज गदापाणिः कुबेर इव संयुगे
ते प्रतस्थुर्महात्मानोऽमरावत्याः सुरा इव। तान् गजैश्च तुरङ्गैश्च रथैश्चाम्बुदनिःस्वनैः
अनूत्पेतुर्महात्मानो राक्षसाः प्रवरायुधाः। ते विरेजुर्महात्मानः कुमाराः सूर्यवर्चसः
किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे। प्रगृहीता बभौ तेषां शस्त्राणामवलिः सिता
शरदभ्रप्रतीकाशा हंसावलिरिवाम्बरे। मरणं वापि निश्चित्य शत्रूणां वा पराजयम्
इति कृत्वा मतिं वीराः संजग्मुः संयुगार्थिनः। जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान्
जगृहुश्च महात्मानो निर्यान्तो युद्धदुर्मदाः। क्ष्वेडितास्फोटितानां वै संचचालेव मेदिनी
रक्षसां सिंहनादैश्च संस्फोटितमिवाम्बरम्। तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः
ददृशुर्वानरानीकं समुद्यतशिलानगम्। हरयोऽपि महात्मानो ददृशू राक्षसं बलम्
हस्त्यश्वरथसम्बाधं किङ्किणीशतनादितम्। नीलजीमूतसंकाशं समुद्यतमहायुधम्
दीप्तानलरविप्रख्यैर्नैर्ऋतैः सर्वतो वृतम्। तद् दृष्ट्वा बलमायातं लब्धलक्षाः प्लवङ्गमाः
समुद्यतमहाशैलाः सम्प्रणेदुर्मुहुर्मुहुः। अमृष्यमाणा रक्षांसि प्रतिनर्दन्त वानराः
ततः समुत्कृष्टरवं निशम्य रक्षोगणा वानरयूथपानाम्। अमृष्यमाणाः परहर्षमुग्रं महाबला भीमतरं प्रणेदुः
ते राक्षसबलं घोरं प्रविश्य हरियूथपाः। विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा
केचिदाकाशमाविश्य केचिदुर्व्यां प्लवङ्गमाः। रक्षःसैन्येषु संक्रुद्धाः केचिद् द्रुमशिलायुधाः
द्रुमांश्च विपुलस्कन्धान् गृह्य वानरपुङ्गवाः। तद् युद्धमभवद् घोरं रक्षोवानरसंकुलम्
ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनूपमाम्। बाणौघैर्वार्यमाणाश्च हरयो भीमविक्रमाः
सिंहनादान् विनेदुश्च रणे राक्षसवानराः। शिलाभिश्चूर्णयामासुर्यातुधानान् प्लवङ्गमाः
निर्जघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान्। केचिद् रथगतान् वीरान् गजवाजिगतानपि
निर्जघ्नुः सहसाऽऽप्लुत्य यातुधानान् प्लवङ्गमाः। शैलशृङ्गान्विताङ्गास्ते मुष्टिभिर्वान्तलोचनाः
चेलुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः। राक्षसाश्च शरैस्तीक्ष्णैर्बिभिदुः कपिकुञ्जरान्
शूलमुद्गरखड्गैश्च जघ्नुः प्रासैश्च शक्तिभिः। अन्योन्यं पातयामासुः परस्परजयैषिणः
रिपुशोणितदिग्धाङ्गास्तत्र वानरराक्षसाः। ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः
मुहूर्तेनावृता भूमिरभवच्छोणितोक्षिता। विकीर्णैः पर्वताकारै रक्षोभिरभिमर्दितैः। आसीद् वसुमती पूर्णा तदा युद्धमदान्वितैः
आक्षिप्ताः क्षिप्यमाणाश्च भग्नशैलाश्च वानराः। पुनरङ्गैस्तदा चक्रुरासन्ना युद्धमद्भुतम्
वानरान् वानरैरेव जघ्नुस्ते नैर्ऋतर्षभाः। राक्षसान् राक्षसैरेव जघ्नुस्ते वानरा अपि