शम्बरो देवराजेन नरको विष्णुना यथा। तथाद्य शयिता रामो मया युधि निपातितः
श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः। पुनर्जातमिवात्मानं मन्यते कालचोदितः
श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ। अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः
ततोऽहमहमित्येवं गर्जन्तो नैर्ऋतर्षभाः। रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः
अन्तरिक्षगताः सर्वे सर्वे मायाविशारदाः। सर्वे त्रिदशदर्पघ्नाः सर्वे समरदुर्मदाः
सर्वे सुबलसम्पन्नाः सर्वे विस्तीर्णकीर्तयः। सर्वे समरमासाद्य न श्रूयन्ते स्म निर्जिताः
देवैरपि सगन्धर्वैः सकिंनरमहोरगैः। सर्वेऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः। सर्वे प्रवरविज्ञानाः सर्वे लब्धवरास्तथा
स तैस्तथा भास्करतुल्यवर्चसैः सुतैर्वृतः शत्रुबलश्रियार्दनैः। रराज राजा मघवान् यथामरै- र्वृतो महादानवदर्पनाशनैः
स पुत्रान् सम्परिष्वज्य भूषयित्वा च भूषणैः। आशीर्भिश्च प्रशस्ताभिः प्रेषयामास वै रणे
युद्धोन्मत्तं च मत्तं च भ्रातरौ चापि रावणः। रक्षणार्थं कुमाराणां प्रेषयामास संयुगे
तेऽभिवाद्य महात्मानं रावणं लोकरावणम्। कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे
सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः। निर्जग्मुर्नैर्ऋतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ। महोदरमहापार्श्वौ निर्जग्मुः कालचोदिताः
ततः सुदर्शनं नागं नीलजीमूतसंनिभम्। ऐरावतकुले जातमारुरोह महोदरः
सर्वायुधसमायुक्तस्तूणीभिश्चाप्यलंकृतः। रराज गजमास्थाय सवितेवास्तमूर्धनि
हयोत्तमसमायुक्तं सर्वायुधसमाकुलम्। आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः
त्रिशिरा रथमास्थाय विरराज धनुर्धरः। सविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः
त्रिभिः किरीटैस्त्रिशिराः शुशुभे स रथोत्तमे। हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः
अतिकायोऽतितेजस्वी राक्षसेन्द्रसुतस्तदा। आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम्
सुचक्राक्षं सुसंयुक्तं स्वनुकर्षं सुकूबरम्। तूणीबाणासनैर्दीप्तं प्रासासिपरिघाकुलम्
स काञ्चनविचित्रेण किरीटेन विराजता। भूषणैश्च बभौ मेरुः प्रभाभिरिव भासयन्
स रराज रथे तस्मिन् राजसूनुर्महाबलः। वृतो नैर्ऋतशार्दूलैर्वज्रपाणिरिवामरैः
हयमुच्चैःश्रवःप्रख्यं श्वेतं कनकभूषणम्। मनोजवं महाकायमारुरोह नरान्तकः
गृहीत्वा प्रासमुल्काभं विरराज नरान्तकः। शक्तिमादाय तेजस्वी गुहः शिखिगतो यथा
देवान्तकः समादाय परिघं हेमभूषणम्। परिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन्
महापार्श्वो महातेजा गदामादाय वीर्यवान्। विरराज गदापाणिः कुबेर इव संयुगे
ते प्रतस्थुर्महात्मानोऽमरावत्याः सुरा इव। तान् गजैश्च तुरङ्गैश्च रथैश्चाम्बुदनिःस्वनैः
अनूत्पेतुर्महात्मानो राक्षसाः प्रवरायुधाः। ते विरेजुर्महात्मानः कुमाराः सूर्यवर्चसः
किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे। प्रगृहीता बभौ तेषां शस्त्राणामवलिः सिता
शरदभ्रप्रतीकाशा हंसावलिरिवाम्बरे। मरणं वापि निश्चित्य शत्रूणां वा पराजयम्