निकृत्तनासाकर्णेन विक्षरद्रुधिरेण च। रुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः
कुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः। अगण्डभूतो विवृतो दावदग्ध इव द्रुमः
श्रुत्वा विनिहतं संख्ये कुम्भकर्णं महाबलम्। रावणः शोकसंतप्तो मुमोह च पपात च
पितृव्यं निहतं श्रुत्वा देवान्तकनरान्तकौ। त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः
भ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा। महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः
ततः कृच्छ्रात् समासाद्य संज्ञां राक्षसपुङ्गवः। कुम्भकर्णवधाद् दीनो विललापाकुलेन्द्रियः
हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल। त्वं मां विहाय वै दैवाद् यातोऽसि यमसादनम्
मम शल्यमनुद्धृत्य बान्धवानां महाबल। शत्रुसैन्यं प्रताप्यैकः क्व मां संत्यज्य गच्छसि
इदानीं खल्वहं नास्मि यस्य मे पतितो भुजः। दक्षिणोऽयं समाश्रित्य न बिभेमि सुरासुरात्
कथमेवंविधो वीरो देवदानवदर्पहा। कालाग्निप्रतिमो ह्यद्य राघवेण रणे हतः
यस्य ते वज्रनिष्पेषो न कुर्याद् व्यसनं सदा। स कथं रामबाणार्तः प्रसुप्तोऽसि महीतले
एते देवगणाः सार्धमृषिभिर्गगने स्थिताः। निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः
ध्रुवमद्यैव संहृष्टा लब्धलक्षाः प्लवंगमाः। आरोक्ष्यन्तीह दुर्गाणि लङ्काद्वाराणि सर्वशः
राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया। कुम्भकर्णविहीनस्य जीविते नास्ति मे मतिः
यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम्। ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम्
अद्यैव तं गमिष्यामि देशं यत्रानुजो मम। नहि भ्रातॄन् समुत्सृज्य क्षणं जीवितुमुत्सहे
देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम्। कथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि
तदिदं मामनुप्राप्तं विभीषणवचः शुभम्। यदज्ञानान्मया तस्य न गृहीतं महात्मनः
विभीषणवचस्तावत् कुम्भकर्णप्रहस्तयोः। विनाशोऽयं समुत्पन्नो मां व्रीडयति दारुणः
तस्यायं कर्मणः प्राप्तो विपाको मम शोकदः। यन्मया धार्मिकः श्रीमान् स निरस्तो विभीषणः
इति बहुविधमाकुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम्। न्यपतदपि दशाननो भृशार्त- स्तमनुजमिन्द्ररिपुं हतं विदित्वा
thumb|एकोनसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनसप्ततितमः सर्गः ॥६-
एवं विलपमानस्य रावणस्य दुरात्मनः। श्रुत्वा शोकाभिभूतस्य त्रिशिरा वाक्यमब्रवीत्
एवमेव महावीर्यो हतो नस्तातमध्यमः। न तु सत्पुरुषा राजन् विलपन्ति यथा भवान्
नूनं त्रिभुवनस्यापि पर्याप्तस्त्वमसि प्रभो। स कस्मात् प्राकृत इव शोचस्यात्मानमीदृशम्
ब्रह्मदत्तास्ति ते शक्तिः कवचं सायको धनुः। सहस्रखरसंयुक्तो रथो मेघसमस्वनः
त्वयासकृद्धि शस्त्रेण विशस्ता देवदानवाः। स सर्वायुधसम्पन्नो राघवं शास्तुमर्हसि
कामं तिष्ठ महाराज निर्गमिष्याम्यहं रणे। उद्धरिष्यामि ते शत्रून् गरुडः पन्नगानिव
शम्बरो देवराजेन नरको विष्णुना यथा। तथाद्य शयिता रामो मया युधि निपातितः
श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः। पुनर्जातमिवात्मानं मन्यते कालचोदितः