दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम्। विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम्
चण्डालरूपिणं राम मुनिः कारुण्यमागतः। कारुण्यात् स महातेजा वाक्यं परमधार्मिकः
इदं जगाद भद्रं ते राजानं घोरदर्शनम्। किमागमनकार्यं ते राजपुत्र महाबल
अयोध्याधिपते वीर शापाच्चण्डालतां गतः। अथ तद्वाक्यमाकर्ण्य राजा चण्डालतां गतः
अब्रवीत् प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम्। प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च
अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः। सशरीरो दिवं यायामिति मे सौम्यदर्शन
मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम्। अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन
कृच्छ्रेष्वपि गतः सौम्य क्षत्रधर्मेण ते शपे। यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः
गुरवश्च महात्मानः शीलवृत्तेन तोषिताः। धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः
परितोषं न गच्छन्ति गुरवो मुनिपुंगव। दैवमेव परं मन्ये पौरुषं तु निरर्थकम्
दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः। तस्य मे परमार्तस्य प्रसादमभिकांक्षतः। कर्तुमर्हसि भद्रं ते दैवोपहतकर्मणः
नान्यां गतिं गमिष्यामि नान्यच्छरणमस्ति मे। दैवं पुरुषकारेण निवर्तयितुमर्हसि
thumb|एकोनषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनषष्ठितमः सर्गः ॥१-
उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः। अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालतां गतम्
इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम्। शरणं ते प्रदास्यामि मा भैषीर्नृपपुंगव
अहमामन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः। यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः
गुरुशापकृतं रूपं यदिदं त्वयि वर्तते। अनेन सह रूपेण सशरीरो गमिष्यसि
हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप। यस्त्वं कौशिकमागम्य शरण्यं शरणागतः
एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान्। व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात्
सर्वान् शिष्यान् समाहूय वाक्यमेतदुवाच ह। सर्वानृषीन् सवासिष्ठानानयध्वं ममाज्ञया
सशिष्यान् सुहृदश्चैव सर्त्विजः सुबहुश्रुतान्। यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः
तत् सर्वमखिलेनोक्तं ममाख्येयमनादृतम्। तस्य तद् वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया
आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः। ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम्
ऊचुश्च वचनं सर्वं सर्वेषां ब्रह्मवादिनाम्। श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः
सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम्। वासिष्ठं यच्छतं सर्वं क्रोधपर्याकुलाक्षरम्
यथाह वचनं सर्वं शृणु त्वं मुनिपुंगव। क्षत्रियो याजको यस्य चण्डालस्य विशेषतः
कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः। ब्राह्मणा वा महात्मानो भुक्त्वा चाण्डालभोजनम्
कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः। एतद् वचननैष्ठुर्यमूचुः संरक्तलोचनाः
वासिष्ठा मुनिशार्दूल सर्वे सहमहोदयाः। तेषां तद् वचनं श्रुत्वा सर्वेषां मुनिपुंगवः
क्रोधसंरक्तनयनः सरोषमिदमब्रवीत्। यद् दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम्