दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मेऽनघ। ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम्
स कुम्भकर्णस्य वचो निशम्य रामः सुपुङ्खान् विससर्ज बाणान्। तैराहतो वज्रसमप्रवेगै- र्न चुक्षुभे न व्यथते सुरारिः
यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुङ्गवश्च। ते कुम्भकर्णस्य तदा शरीरं वज्रोपमा न व्यथयाम्प्रचक्रुः
स वारिधारा इव सायकांस्तान् पिबन् शरीरेण महेन्द्रशत्रुः। जघान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरमुग्रवेगम्
ततस्तु रक्षः क्षतजानुलिप्तं वित्रासनं देवमहाचमूनाम्। व्याविध्य तं मुद्गरमुग्रवेगं विद्रावयामास चमूं हरीणाम्
वायव्यमादाय ततोऽपरास्त्रं रामः प्रचिक्षेप निशाचराय। समुद्गरं तेन जहार बाहुं स कृत्तबाहुस्तुमुलं ननाद
स तस्य बाहुर्गिरिशृङ्गकल्पः समुद्गरो राघवबाणकृत्तः। पपात तस्मिन् हरिराजसैन्ये जघान तां वानरवाहिनीं च
ते वानरा भग्नहतावशेषाः पर्यन्तमाश्रित्य तदा विषण्णाः। प्रपीडिताङ्गा ददृशुः सुघोरं नरेन्द्ररक्षोऽधिपसंनिपातम्
स कुम्भकर्णोऽस्त्रनिकृत्तबाहु- र्महासिकृत्ताग्र इवाचलेन्द्रः। उत्पाटयामास करेण वृक्षं ततोऽभिदुद्राव रणे नरेन्द्रम्
तं तस्य बाहुं सहतालवृक्षं समुद्यतं पन्नगभोगकल्पम्। ऐन्द्रास्त्रयुक्तेन जघान रामो बाणेन जाम्बूनदचित्रितेन
स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसंनिकाशः। विचेष्टमानो निजघान वृक्षान् शैलान् शिलावानरराक्षसांश्च
तं छिन्नबाहुं समवेक्ष्य रामः समापतन्तं सहसा नदन्तम्। द्वावर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य
तौ तस्य पादौ प्रदिशो दिशश्च गिरेर्गुहाश्चैव महार्णवं च। लङ्कां च सेनां कपिराक्षसानां विनादयन्तौ विनिपेततुश्च
निकृत्तबाहुर्विनिकृत्तपादो विदार्य वक्त्रं वडवामुखाभम्। दुद्राव रामं सहसाभिगर्जन् राहुर्यथा चन्द्रमिवान्तरिक्षे
अपूरयत् तस्य मुखं शिताग्रै रामः शरैर्हेमपिनद्धपुङ्खैः। सम्पूर्णवक्त्रो न शशाक वक्तुं चुकूज कृच्छ्रेण मुमूर्च्छ चापि
अथाददे सूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककालकल्पम्। अरिष्टमैन्द्रं निशितं सुपुङ्खं रामः शरं मारुततुल्यवेगम्
तं वज्रजाम्बूनदचारुपुङ्खं प्रदीप्तसूर्यज्वलनप्रकाशम्। महेन्द्रवज्राशनितुल्यवेगं रामः प्रचिक्षेप निशाचराय
स सायको राघवबाहुचोदितो दिशःस्वभासा दश सम्प्रकाशयन्। विधूमवैश्वानरभीमदर्शनो जगाम शक्राशनिभीमविक्रमः
स तन्महापर्वतकूटसंनिभं सुवृत्तदंष्ट्रं चलचारुकुण्डलम्। चकर्त रक्षोऽधिपतेः शिरस्तदा यथैव वृत्रस्य पुरा पुरंदरः
कुम्भकर्णशिरो भाति कुण्डलालंकृतं महत्। आदित्येऽभ्युदिते रात्रौ मध्यस्थ इव चन्द्रमाः
तद् रामबाणाभिहतं पपात रक्षःशिरः पर्वतसंनिकाशम्। बभञ्ज चर्यागृहगोपुराणि प्राकारमुच्चं तमपातयच्च
तच्चातिकायं हिमवत् प्रकाशं रक्षस्तदा तोयनिधौ पपात। ग्राहान् परान् मीनवरान् भुजंगमान् ममर्द भूमिं च तथा विवेश
तस्मिन् हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे। चचाल भूर्भूमिधराश्च सर्वे हर्षाच्च देवास्तुमुलं प्रणेदुः
ततस्तु देवर्षिमहर्षिपन्नगाः सुराश्च भूतानि सुपर्णगुह्यकाः। सयक्षगन्धर्वगणा नभोगताः प्रहर्षिता रामपराक्रमेण
ततस्तु ते तस्य वधेन भूरिणा मनस्विनो नैर्ऋतराजबान्धवाः। विनेदुरुच्चैर्व्यथिता रघूत्तमं हरिं समीक्ष्यैव यथा मतंगजाः
स देवलोकस्य तमो निहत्य सूर्यो यथा राहुमुखाद् विमुक्तः। तथा व्यभासीद्धरिसैन्यमध्ये निहत्य रामो युधि कुम्भकर्णम्
प्रहर्षमीयुर्बहवश्च वानराः प्रबुद्धपद्मप्रतिमैरिवाननैः। अपूजयन् राघवमिष्टभागिनं हते रिपौ भीमबले नृपात्मजम्
स कुम्भकर्णं सुरसैन्यमर्दनं महत्सु युद्धेषु कदाचनाजितम्। ननन्द हत्वा भरताग्रजो रणे महासुरं वृत्रमिवामराधिपः
thumb|अष्टषष्टितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टषष्टितमः सर्गः ॥६-
कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना। राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्