जिह्वया परिलिह्यन्तं सृक्किणी शोणितोक्षिते। मृद्नन्तं वानरानीकं कालान्तकयमोपमम्
तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम्। विस्फारयामास तदा कार्मुकं पुरुषर्षभः
स तस्य चापनिर्घोषात् कुपितो राक्षसर्षभः। अमृष्यमाणस्तं घोषमभिदुद्राव राघवम्
ततस्तु वातोद्धतमेघकल्पं भुजंगराजोत्तमभोगबाहुः। तमापतन्तं धरणीधराभ- मुवाच रामो युधि कुम्भकर्णम्
आगच्छ रक्षोऽधिप मा विषाद- मवस्थितोऽहं प्रगृहीतचापः। अवेहि मां राक्षसवंशनाशनं यस्त्वं मुहूर्ताद् भविता विचेताः
रामोऽयमिति विज्ञाय जहास विकृतस्वनम्। अभ्यधावत संक्रुद्धो हरीन् विद्रावयन् रणे
दारयन्निव सर्वेषां हृदयानि वनौकसाम्। प्रहस्य विकृतं भीमं स मेघस्तनितोपमम्
कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत्। नाहं विराधो विज्ञेयो न कबन्धः खरो न च। न वाली न च मारीचः कुम्भकर्णः समागतः
पश्य मे मुद्गरं भीमं सर्वं कालायसं महत्। अनेन निर्जिता देवा दानवाश्च पुरा मया
विकर्णनास इति मां नावज्ञातुं त्वमर्हसि। स्वल्पापि हि न मे पीडा कर्णनासाविनाशनात्
दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मेऽनघ। ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम्
स कुम्भकर्णस्य वचो निशम्य रामः सुपुङ्खान् विससर्ज बाणान्। तैराहतो वज्रसमप्रवेगै- र्न चुक्षुभे न व्यथते सुरारिः
यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुङ्गवश्च। ते कुम्भकर्णस्य तदा शरीरं वज्रोपमा न व्यथयाम्प्रचक्रुः
स वारिधारा इव सायकांस्तान् पिबन् शरीरेण महेन्द्रशत्रुः। जघान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरमुग्रवेगम्
ततस्तु रक्षः क्षतजानुलिप्तं वित्रासनं देवमहाचमूनाम्। व्याविध्य तं मुद्गरमुग्रवेगं विद्रावयामास चमूं हरीणाम्
वायव्यमादाय ततोऽपरास्त्रं रामः प्रचिक्षेप निशाचराय। समुद्गरं तेन जहार बाहुं स कृत्तबाहुस्तुमुलं ननाद
स तस्य बाहुर्गिरिशृङ्गकल्पः समुद्गरो राघवबाणकृत्तः। पपात तस्मिन् हरिराजसैन्ये जघान तां वानरवाहिनीं च
ते वानरा भग्नहतावशेषाः पर्यन्तमाश्रित्य तदा विषण्णाः। प्रपीडिताङ्गा ददृशुः सुघोरं नरेन्द्ररक्षोऽधिपसंनिपातम्
स कुम्भकर्णोऽस्त्रनिकृत्तबाहु- र्महासिकृत्ताग्र इवाचलेन्द्रः। उत्पाटयामास करेण वृक्षं ततोऽभिदुद्राव रणे नरेन्द्रम्
तं तस्य बाहुं सहतालवृक्षं समुद्यतं पन्नगभोगकल्पम्। ऐन्द्रास्त्रयुक्तेन जघान रामो बाणेन जाम्बूनदचित्रितेन
स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसंनिकाशः। विचेष्टमानो निजघान वृक्षान् शैलान् शिलावानरराक्षसांश्च
तं छिन्नबाहुं समवेक्ष्य रामः समापतन्तं सहसा नदन्तम्। द्वावर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य
तौ तस्य पादौ प्रदिशो दिशश्च गिरेर्गुहाश्चैव महार्णवं च। लङ्कां च सेनां कपिराक्षसानां विनादयन्तौ विनिपेततुश्च
निकृत्तबाहुर्विनिकृत्तपादो विदार्य वक्त्रं वडवामुखाभम्। दुद्राव रामं सहसाभिगर्जन् राहुर्यथा चन्द्रमिवान्तरिक्षे
अपूरयत् तस्य मुखं शिताग्रै रामः शरैर्हेमपिनद्धपुङ्खैः। सम्पूर्णवक्त्रो न शशाक वक्तुं चुकूज कृच्छ्रेण मुमूर्च्छ चापि
अथाददे सूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककालकल्पम्। अरिष्टमैन्द्रं निशितं सुपुङ्खं रामः शरं मारुततुल्यवेगम्
तं वज्रजाम्बूनदचारुपुङ्खं प्रदीप्तसूर्यज्वलनप्रकाशम्। महेन्द्रवज्राशनितुल्यवेगं रामः प्रचिक्षेप निशाचराय
स सायको राघवबाहुचोदितो दिशःस्वभासा दश सम्प्रकाशयन्। विधूमवैश्वानरभीमदर्शनो जगाम शक्राशनिभीमविक्रमः
स तन्महापर्वतकूटसंनिभं सुवृत्तदंष्ट्रं चलचारुकुण्डलम्। चकर्त रक्षोऽधिपतेः शिरस्तदा यथैव वृत्रस्य पुरा पुरंदरः
कुम्भकर्णशिरो भाति कुण्डलालंकृतं महत्। आदित्येऽभ्युदिते रात्रौ मध्यस्थ इव चन्द्रमाः