अद्यायं दुर्मतिः काले गुरुभारप्रपीडितः। प्रचरन् राक्षसो भूमौ नान्यान् हन्यात् प्लवंगमान्
तस्य तद् वचनं श्रुत्वा राजपुत्रस्य धीमतः। ते समारुरुहुर्हृष्टाः कुम्भकर्णं महाबलाः
कुम्भकर्णस्तु संक्रुद्धः समारूढः प्लवंगमैः। व्यधूनयत् तान् वेगेन दुष्टहस्तीव हस्तिपान्
तान् दृष्ट्वा निर्धुतान् रामो रुष्टोऽयमिति राक्षसम्। समुत्पपात वेगेन धनुरुत्तममाददे
क्रोधरक्तेक्षणो धीरो निर्दहन्निव चक्षुषा। राघवो राक्षसं वेगादभिदुद्राव वेगितः। यूथपान् हर्षयन् सर्वान् कुम्भकर्णबलार्दितान्
स चापमादाय भुजंगकल्पं दृढज्यमुग्रं तपनीयचित्रम्। हरीन् समाश्वास्य समुत्पपात रामो निबद्धोत्तमतूणबाणः
स वानरगणैस्तैस्तु वृतः परमदुर्जयैः। लक्ष्मणानुचरो वीरः सम्प्रतस्थे महाबलः
स ददर्श महात्मानं किरीटिनमरिंदमम्। शोणिताप्लुतरक्ताक्षं कुम्भकर्णं महाबलः
सर्वान् समभिधावन्तं यथा रुष्टं दिशागजम्। मार्गमाणं हरीन् क्रुद्धं राक्षसैः परिवारितम्
विन्ध्यमन्दरसंकाशं काञ्चनाङ्गदभूषणम्। स्रवन्तं रुधिरं वक्त्राद् वर्षमेघमिवोत्थितम्
जिह्वया परिलिह्यन्तं सृक्किणी शोणितोक्षिते। मृद्नन्तं वानरानीकं कालान्तकयमोपमम्
तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम्। विस्फारयामास तदा कार्मुकं पुरुषर्षभः
स तस्य चापनिर्घोषात् कुपितो राक्षसर्षभः। अमृष्यमाणस्तं घोषमभिदुद्राव राघवम्
ततस्तु वातोद्धतमेघकल्पं भुजंगराजोत्तमभोगबाहुः। तमापतन्तं धरणीधराभ- मुवाच रामो युधि कुम्भकर्णम्
आगच्छ रक्षोऽधिप मा विषाद- मवस्थितोऽहं प्रगृहीतचापः। अवेहि मां राक्षसवंशनाशनं यस्त्वं मुहूर्ताद् भविता विचेताः
रामोऽयमिति विज्ञाय जहास विकृतस्वनम्। अभ्यधावत संक्रुद्धो हरीन् विद्रावयन् रणे
दारयन्निव सर्वेषां हृदयानि वनौकसाम्। प्रहस्य विकृतं भीमं स मेघस्तनितोपमम्
कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत्। नाहं विराधो विज्ञेयो न कबन्धः खरो न च। न वाली न च मारीचः कुम्भकर्णः समागतः
पश्य मे मुद्गरं भीमं सर्वं कालायसं महत्। अनेन निर्जिता देवा दानवाश्च पुरा मया
विकर्णनास इति मां नावज्ञातुं त्वमर्हसि। स्वल्पापि हि न मे पीडा कर्णनासाविनाशनात्
दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मेऽनघ। ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम्
स कुम्भकर्णस्य वचो निशम्य रामः सुपुङ्खान् विससर्ज बाणान्। तैराहतो वज्रसमप्रवेगै- र्न चुक्षुभे न व्यथते सुरारिः
यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुङ्गवश्च। ते कुम्भकर्णस्य तदा शरीरं वज्रोपमा न व्यथयाम्प्रचक्रुः
स वारिधारा इव सायकांस्तान् पिबन् शरीरेण महेन्द्रशत्रुः। जघान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरमुग्रवेगम्
ततस्तु रक्षः क्षतजानुलिप्तं वित्रासनं देवमहाचमूनाम्। व्याविध्य तं मुद्गरमुग्रवेगं विद्रावयामास चमूं हरीणाम्
वायव्यमादाय ततोऽपरास्त्रं रामः प्रचिक्षेप निशाचराय। समुद्गरं तेन जहार बाहुं स कृत्तबाहुस्तुमुलं ननाद
स तस्य बाहुर्गिरिशृङ्गकल्पः समुद्गरो राघवबाणकृत्तः। पपात तस्मिन् हरिराजसैन्ये जघान तां वानरवाहिनीं च
ते वानरा भग्नहतावशेषाः पर्यन्तमाश्रित्य तदा विषण्णाः। प्रपीडिताङ्गा ददृशुः सुघोरं नरेन्द्ररक्षोऽधिपसंनिपातम्
स कुम्भकर्णोऽस्त्रनिकृत्तबाहु- र्महासिकृत्ताग्र इवाचलेन्द्रः। उत्पाटयामास करेण वृक्षं ततोऽभिदुद्राव रणे नरेन्द्रम्
तं तस्य बाहुं सहतालवृक्षं समुद्यतं पन्नगभोगकल्पम्। ऐन्द्रास्त्रयुक्तेन जघान रामो बाणेन जाम्बूनदचित्रितेन