तस्मिन् काले सुमित्रायाः पुत्रः परबलार्दनः। चकार लक्ष्मणः क्रुद्धो युद्धं परपुरंजयः
स कुम्भकर्णस्य शरान् शरीरे सप्त वीर्यवान्। निचखानाददे चान्यान् विससर्ज च लक्ष्मणः
पीड्यमानस्तदस्त्रं तु विशेषं तत् स राक्षसः। ततश्चुकोप बलवान् सुमित्रानन्दवर्धनः
अथास्य कवचं शुभ्रं जाम्बूनदमयं शुभम्। प्रच्छादयामास शरैः संध्याभ्रमिव मारुतः
नीलाञ्जनचयप्रख्यः शरैः काञ्चनभूषणैः। आपीड्यमानः शुशुभे मेघैः सूर्य इवांशुमान्
ततः स राक्षसो भीमः सुमित्रानन्दवर्धनम्। सावज्ञमेव प्रोवाच वाक्यं मेघौघनिःस्वनः
अन्तकस्याप्यकष्टेन युधि जेतारमाहवे। युध्यता मामभीतेन ख्यापिता वीरता त्वया
प्रगृहीतायुधस्येह मृत्योरिव महामृधे। तिष्ठन्नप्यग्रतः पूज्यः किमु युद्धप्रदायकः
ऐरावतं समारूढो वृतः सर्वामरैः प्रभुः। नैव शक्रोऽपि समरे स्थितपूर्वः कदाचन
अद्य त्वयाहं सौमित्रे बालेनापि पराक्रमैः। तोषितो गन्तुमिच्छामि त्वामनुज्ञाप्य राघवम्
यत् तु वीर्यबलोत्साहैस्तोषितोऽहं रणे त्वया। राममेवैकमिच्छामि हन्तुं यस्मिन् हते हतम्
रामे मयात्र निहते येऽन्ये स्थास्यन्ति संयुगे। तानहं योधयिष्यामि स्वबलेन प्रमाथिना
इत्युक्तवाक्यं तद् रक्षः प्रोवाच स्तुतिसंहितम्। मृधे घोरतरं वाक्यं सौमित्रिः प्रहसन्निव
यस्त्वं शक्रादिभिर्देवैरसह्यः प्राप्य पौरुषम्। तत् सत्यं नान्यथा वीर दृष्टस्तेऽद्य पराक्रमः
एष दाशरथी रामस्तिष्ठत्यद्रिरिवाचलः। इति श्रुत्वा ह्यनादृत्य लक्ष्मणं स निशाचरः
अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः। राममेवाभिदुद्राव कम्पयन्निव मेदिनीम्
अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन्। कुम्भकर्णस्य हृदये ससर्ज निशितान् शरान्
तस्य रामेण विद्धस्य सहसाभिप्रधावतः। अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः
रामास्त्रविद्धो घोरं वै नर्दन् राक्षसपुङ्गवः। अभ्यधावत संक्रुद्धो हरीन् विद्रावयन् रणे
तस्योरसि निमग्नास्ते शरा बर्हिणवाससः। हस्ताच्चास्य परिभ्रष्टा गदा चोर्व्यां पपात ह
आयुधानि च सर्वाणि विप्रकीर्यन्त भूतले। स निरायुधमात्मानं यदा मेने महाबलः
मुष्टिभ्यां च कराभ्यां च चकार कदनं महत्। स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः। रुधिरं परिसुस्राव गिरिः प्रस्रवणं यथा
स तीव्रेण च कोपेन रुधिरेण च मूर्च्छितः। वानरान् राक्षसानृक्षान् खादन् स परिधावति
अथ शृङ्गं समाविध्य भीमं भीमपराक्रमः। चिक्षेप राममुद्दिश्य बलवानन्तकोपमः
अप्राप्तमन्तरा रामः सप्तभिस्तमजिह्मगैः। चिच्छेद गिरिशृङ्गं तं पुनः संधाय कार्मुकम्
ततस्तु रामो धर्मात्मा तस्य शृङ्गं महत् तदा। शरैः काञ्चनचित्राङ्गैश्चिच्छेद भरताग्रजः
तन्मेरुशिखराकारं द्योतमानमिव श्रिया। द्वे शते वानराणां च पतमानमपातयत्
तस्मिन् काले स धर्मात्मा लक्ष्मणो राममब्रवीत्। कुम्भकर्णवधे युक्तो योगान् परिमृशन् बहून्
नैवायं वानरान् राजन् न विजानाति राक्षसान्। मत्तः शोणितगन्धेन स्वान् परांश्चैव खादति
साध्वेनमधिरोहन्तु सर्वतो वानरर्षभाः। यूथपाश्च यथा मुख्यास्तिष्ठन्त्वस्मिन् समन्ततः