शोणितार्द्रो महाकायो राक्षसो भीमदर्शनः। युद्धायाभिमुखो भूयो मनश्चक्रे निशाचरः
अमर्षाच्छोणितोद्गारी शुशुभे रावणानुजः। नीलाञ्जनचयप्रख्यः ससंध्य इव तोयदः
गते च तस्मिन् सुरराजशत्रुः क्रोधात् प्रदुद्राव रणाय भूयः। अनायुधोऽस्मीति विचिन्त्य रौद्रो घोरं तदा मुद्गरमाससाद
ततः स पुर्याः सहसा महौजा निष्क्रम्य तद् वानरसैन्यमुग्रम्। बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निरिव प्रवृद्धः
बुभुक्षितः शोणितमांसगृध्नुः प्रविश्य तद् वानरसैन्यमुग्रम्। चखाद रक्षांसि हरीन् पिशाचा- न्नृक्षांश्च मोहाद् युधि कुम्भकर्णः। यथैव मृत्युर्हरते युगान्ते स भक्षयामास हरींश्च मुख्यान्
एकं द्वौ त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः। समादायैकहस्तेन प्रचिक्षेप त्वरन् मुखे
सम्प्रस्रवंस्तदा मेदः शोणितं च महाबलः। वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान्
ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम्। कुम्भकर्णो भृशं क्रुद्धः कपीन् खादन् प्रधावति
शतानि सप्त चाष्टौ च विंशत् त्रिंशत् तथैव च। सम्परिष्वज्य बाहुभ्यां खादन् विपरिधावति
मेदोवसाशोणितदिग्धगात्रः कर्णावसक्तग्रथितान्त्रमालः। ववर्ष शूलानि सुतीक्ष्णदंष्ट्रः कालो युगान्तस्थ इव प्रवृद्धः
तस्मिन् काले सुमित्रायाः पुत्रः परबलार्दनः। चकार लक्ष्मणः क्रुद्धो युद्धं परपुरंजयः
स कुम्भकर्णस्य शरान् शरीरे सप्त वीर्यवान्। निचखानाददे चान्यान् विससर्ज च लक्ष्मणः
पीड्यमानस्तदस्त्रं तु विशेषं तत् स राक्षसः। ततश्चुकोप बलवान् सुमित्रानन्दवर्धनः
अथास्य कवचं शुभ्रं जाम्बूनदमयं शुभम्। प्रच्छादयामास शरैः संध्याभ्रमिव मारुतः
नीलाञ्जनचयप्रख्यः शरैः काञ्चनभूषणैः। आपीड्यमानः शुशुभे मेघैः सूर्य इवांशुमान्
ततः स राक्षसो भीमः सुमित्रानन्दवर्धनम्। सावज्ञमेव प्रोवाच वाक्यं मेघौघनिःस्वनः
अन्तकस्याप्यकष्टेन युधि जेतारमाहवे। युध्यता मामभीतेन ख्यापिता वीरता त्वया
प्रगृहीतायुधस्येह मृत्योरिव महामृधे। तिष्ठन्नप्यग्रतः पूज्यः किमु युद्धप्रदायकः
ऐरावतं समारूढो वृतः सर्वामरैः प्रभुः। नैव शक्रोऽपि समरे स्थितपूर्वः कदाचन
अद्य त्वयाहं सौमित्रे बालेनापि पराक्रमैः। तोषितो गन्तुमिच्छामि त्वामनुज्ञाप्य राघवम्
यत् तु वीर्यबलोत्साहैस्तोषितोऽहं रणे त्वया। राममेवैकमिच्छामि हन्तुं यस्मिन् हते हतम्
रामे मयात्र निहते येऽन्ये स्थास्यन्ति संयुगे। तानहं योधयिष्यामि स्वबलेन प्रमाथिना
इत्युक्तवाक्यं तद् रक्षः प्रोवाच स्तुतिसंहितम्। मृधे घोरतरं वाक्यं सौमित्रिः प्रहसन्निव
यस्त्वं शक्रादिभिर्देवैरसह्यः प्राप्य पौरुषम्। तत् सत्यं नान्यथा वीर दृष्टस्तेऽद्य पराक्रमः
एष दाशरथी रामस्तिष्ठत्यद्रिरिवाचलः। इति श्रुत्वा ह्यनादृत्य लक्ष्मणं स निशाचरः
अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः। राममेवाभिदुद्राव कम्पयन्निव मेदिनीम्
अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन्। कुम्भकर्णस्य हृदये ससर्ज निशितान् शरान्
तस्य रामेण विद्धस्य सहसाभिप्रधावतः। अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः
रामास्त्रविद्धो घोरं वै नर्दन् राक्षसपुङ्गवः। अभ्यधावत संक्रुद्धो हरीन् विद्रावयन् रणे
तस्योरसि निमग्नास्ते शरा बर्हिणवाससः। हस्ताच्चास्य परिभ्रष्टा गदा चोर्व्यां पपात ह