तस्मान्मुहूर्तं कांक्षिष्ये विक्रमं मोक्षितस्य तु। भिन्नं च वानरानीकं तावदाश्वासयाम्यहम्
इत्येवं चिन्तयित्वाथ हनूमान् मारुतात्मजः। भूयः संस्तम्भयामास वानराणां महाचमूम्
स कुम्भकर्णोऽथ विवेश लङ्कां स्फुरन्तमादाय महाहरिं तम्। विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवर्षैरभिपूज्यमानः
लाजगन्धोदवर्षैस्तु सेच्यमानः शनैः शनैः। राजवीथ्यास्तु शीतत्वात् संज्ञां प्राप महाबलः
ततः स संज्ञामुपलभ्य कृच्छ्राद् बलीयसस्तस्य भुजान्तरस्थः। अवेक्षमाणः पुरराजमार्गं विचिन्तयामास मुहुर्महात्मा
एवं गृहीतेन कथं नु नाम शक्यं मया सम्प्रतिकर्तुमद्य। तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम्
ततः कराग्रैः सहसा समेत्य राजा हरीणाममरेन्द्रशत्रोः। खरैश्च कर्णौ दशनैश्च नासां ददंश पादैर्विददार पार्श्वौ
स कुम्भकर्णो हृतकर्णनासो विदारितस्तेन रदैर्नखैश्च। रोषाभिभूतः क्षतजार्द्रगात्रः सुग्रीवमाविध्य पिपेष भूमौ
स भूतले भीमबलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः। जगाम खं कन्दुकवज्जवेन पुनश्च रामेण समाजगाम
कर्णनासाविहीनस्तु कुम्भकर्णो महाबलः। रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैरिव
शोणितार्द्रो महाकायो राक्षसो भीमदर्शनः। युद्धायाभिमुखो भूयो मनश्चक्रे निशाचरः
अमर्षाच्छोणितोद्गारी शुशुभे रावणानुजः। नीलाञ्जनचयप्रख्यः ससंध्य इव तोयदः
गते च तस्मिन् सुरराजशत्रुः क्रोधात् प्रदुद्राव रणाय भूयः। अनायुधोऽस्मीति विचिन्त्य रौद्रो घोरं तदा मुद्गरमाससाद
ततः स पुर्याः सहसा महौजा निष्क्रम्य तद् वानरसैन्यमुग्रम्। बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निरिव प्रवृद्धः
बुभुक्षितः शोणितमांसगृध्नुः प्रविश्य तद् वानरसैन्यमुग्रम्। चखाद रक्षांसि हरीन् पिशाचा- न्नृक्षांश्च मोहाद् युधि कुम्भकर्णः। यथैव मृत्युर्हरते युगान्ते स भक्षयामास हरींश्च मुख्यान्
एकं द्वौ त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः। समादायैकहस्तेन प्रचिक्षेप त्वरन् मुखे
सम्प्रस्रवंस्तदा मेदः शोणितं च महाबलः। वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान्
ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम्। कुम्भकर्णो भृशं क्रुद्धः कपीन् खादन् प्रधावति
शतानि सप्त चाष्टौ च विंशत् त्रिंशत् तथैव च। सम्परिष्वज्य बाहुभ्यां खादन् विपरिधावति
मेदोवसाशोणितदिग्धगात्रः कर्णावसक्तग्रथितान्त्रमालः। ववर्ष शूलानि सुतीक्ष्णदंष्ट्रः कालो युगान्तस्थ इव प्रवृद्धः
तस्मिन् काले सुमित्रायाः पुत्रः परबलार्दनः। चकार लक्ष्मणः क्रुद्धो युद्धं परपुरंजयः
स कुम्भकर्णस्य शरान् शरीरे सप्त वीर्यवान्। निचखानाददे चान्यान् विससर्ज च लक्ष्मणः
पीड्यमानस्तदस्त्रं तु विशेषं तत् स राक्षसः। ततश्चुकोप बलवान् सुमित्रानन्दवर्धनः
अथास्य कवचं शुभ्रं जाम्बूनदमयं शुभम्। प्रच्छादयामास शरैः संध्याभ्रमिव मारुतः
नीलाञ्जनचयप्रख्यः शरैः काञ्चनभूषणैः। आपीड्यमानः शुशुभे मेघैः सूर्य इवांशुमान्
ततः स राक्षसो भीमः सुमित्रानन्दवर्धनम्। सावज्ञमेव प्रोवाच वाक्यं मेघौघनिःस्वनः
अन्तकस्याप्यकष्टेन युधि जेतारमाहवे। युध्यता मामभीतेन ख्यापिता वीरता त्वया
प्रगृहीतायुधस्येह मृत्योरिव महामृधे। तिष्ठन्नप्यग्रतः पूज्यः किमु युद्धप्रदायकः
ऐरावतं समारूढो वृतः सर्वामरैः प्रभुः। नैव शक्रोऽपि समरे स्थितपूर्वः कदाचन
अद्य त्वयाहं सौमित्रे बालेनापि पराक्रमैः। तोषितो गन्तुमिच्छामि त्वामनुज्ञाप्य राघवम्