ततस्तमादाय जगाम वीरः संस्तूयमानो युधि राक्षसेन्द्रः। शृण्वन् निनादं त्रिदिवालयानां प्लवङ्गराजग्रहविस्मितानाम्
ततस्तमादाय तदा स मेने हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः। अस्मिन् हते सर्वमिदं हतं स्यात् सराघवं सैन्यमितीन्द्रशत्रुः
विद्रुतां वाहिनीं दृष्ट्वा वानराणामितस्ततः। कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम्
हनूमांश्चिन्तयामास मतिमान् मारुतात्मजः। एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत्
यद्धि न्याय्यं मया कर्तुं तत् करिष्याम्यसंशयम्। भूत्वा पर्वतसंकाशो नाशयिष्यामि राक्षसम्
मया हते संयति कुम्भकर्णे महाबले मुष्टिविशीर्णदेहे। विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्लवगाः समग्राः
अथवा स्वयमप्येष मोक्षं प्राप्स्यति वानरः। गृहीतोऽयं यदि भवेत् त्रिदशैः सासुरोरगैः
मन्ये न तावदात्मानं बुध्यते वानराधिपः। शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे
अयं मुहूर्तात् सुग्रीवो लब्धसंज्ञो महाहवे। आत्मनो वानराणां च यत् पथ्यं तत् करिष्यति
मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः। अप्रीतिश्च भवेत् कष्टा कीर्तिनाशश्च शाश्वतः
तस्मान्मुहूर्तं कांक्षिष्ये विक्रमं मोक्षितस्य तु। भिन्नं च वानरानीकं तावदाश्वासयाम्यहम्
इत्येवं चिन्तयित्वाथ हनूमान् मारुतात्मजः। भूयः संस्तम्भयामास वानराणां महाचमूम्
स कुम्भकर्णोऽथ विवेश लङ्कां स्फुरन्तमादाय महाहरिं तम्। विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवर्षैरभिपूज्यमानः
लाजगन्धोदवर्षैस्तु सेच्यमानः शनैः शनैः। राजवीथ्यास्तु शीतत्वात् संज्ञां प्राप महाबलः
ततः स संज्ञामुपलभ्य कृच्छ्राद् बलीयसस्तस्य भुजान्तरस्थः। अवेक्षमाणः पुरराजमार्गं विचिन्तयामास मुहुर्महात्मा
एवं गृहीतेन कथं नु नाम शक्यं मया सम्प्रतिकर्तुमद्य। तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम्
ततः कराग्रैः सहसा समेत्य राजा हरीणाममरेन्द्रशत्रोः। खरैश्च कर्णौ दशनैश्च नासां ददंश पादैर्विददार पार्श्वौ
स कुम्भकर्णो हृतकर्णनासो विदारितस्तेन रदैर्नखैश्च। रोषाभिभूतः क्षतजार्द्रगात्रः सुग्रीवमाविध्य पिपेष भूमौ
स भूतले भीमबलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः। जगाम खं कन्दुकवज्जवेन पुनश्च रामेण समाजगाम
कर्णनासाविहीनस्तु कुम्भकर्णो महाबलः। रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैरिव
शोणितार्द्रो महाकायो राक्षसो भीमदर्शनः। युद्धायाभिमुखो भूयो मनश्चक्रे निशाचरः
अमर्षाच्छोणितोद्गारी शुशुभे रावणानुजः। नीलाञ्जनचयप्रख्यः ससंध्य इव तोयदः
गते च तस्मिन् सुरराजशत्रुः क्रोधात् प्रदुद्राव रणाय भूयः। अनायुधोऽस्मीति विचिन्त्य रौद्रो घोरं तदा मुद्गरमाससाद
ततः स पुर्याः सहसा महौजा निष्क्रम्य तद् वानरसैन्यमुग्रम्। बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निरिव प्रवृद्धः
बुभुक्षितः शोणितमांसगृध्नुः प्रविश्य तद् वानरसैन्यमुग्रम्। चखाद रक्षांसि हरीन् पिशाचा- न्नृक्षांश्च मोहाद् युधि कुम्भकर्णः। यथैव मृत्युर्हरते युगान्ते स भक्षयामास हरींश्च मुख्यान्
एकं द्वौ त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः। समादायैकहस्तेन प्रचिक्षेप त्वरन् मुखे
सम्प्रस्रवंस्तदा मेदः शोणितं च महाबलः। वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान्
ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम्। कुम्भकर्णो भृशं क्रुद्धः कपीन् खादन् प्रधावति
शतानि सप्त चाष्टौ च विंशत् त्रिंशत् तथैव च। सम्परिष्वज्य बाहुभ्यां खादन् विपरिधावति
मेदोवसाशोणितदिग्धगात्रः कर्णावसक्तग्रथितान्त्रमालः। ववर्ष शूलानि सुतीक्ष्णदंष्ट्रः कालो युगान्तस्थ इव प्रवृद्धः