स कुम्भकर्णस्य वचो निशम्य व्याविध्य शैलं सहसा मुमोच। तेनाजघानोरसि कुम्भकर्णं शैलेन वज्राशनिसंनिभेन
तच्छैलशृङ्गं सहसा विभिन्नं भुजान्तरे तस्य तदा विशाले। ततो विषेदुः सहसा प्लवंगा रक्षोगणाश्चापि मुदा विनेदुः
स शैलशृङ्गाभिहतश्चुकोप ननाद रोषाच्च विवृत्य वक्त्रम्। व्याविध्य शूलं स तडित्प्रकाशं चिक्षेप हर्यृक्षपतेर्वधाय
तत् कुम्भकर्णस्य भुजप्रणुन्नं शूलं शितं काञ्चनधामयष्टिम्। क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां बभञ्ज वेगेन सुतोऽनिलस्य
कृतं भारसहस्रस्य शूलं कालायसं महत्। बभञ्ज जानुमारोप्य तदा हृष्टः प्लवंगमः
शूलं भग्नं हनुमता दृष्ट्वा वानरवाहिनी। हृष्टा ननाद बहुशः सर्वतश्चापि दुद्रुवे
बभूवाथ परित्रस्तो राक्षसो विमुखोऽभवत्। सिंहनादं च ते चक्रुः प्रहृष्टा वनगोचराः। मारुतिं पूजयांचक्रुर्दृष्ट्वा शूलं तथागतम्
स तत् तथा भग्नमवेक्ष्य शूलं चुकोप रक्षोधिपतिर्महात्मा। उत्पाट्य लङ्कामलयात् स शृङ्गं जघान सुग्रीवमुपेत्य तेन
समभ्युपेत्याद्भुतघोरवीर्यं स कुम्भकर्णो युधि वानरेन्द्रम्। जहार सुग्रीवमभिप्रगृह्य यथानिलो मेघमिव प्रचण्डः
स तं महामेघनिकाशरूप- मुत्पाट्य गच्छन् युधि कुम्भकर्णः। रराज मेरुप्रतिमानरूपो मेरुर्यथा व्युच्छ्रितघोरशृङ्गः
ततस्तमादाय जगाम वीरः संस्तूयमानो युधि राक्षसेन्द्रः। शृण्वन् निनादं त्रिदिवालयानां प्लवङ्गराजग्रहविस्मितानाम्
ततस्तमादाय तदा स मेने हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः। अस्मिन् हते सर्वमिदं हतं स्यात् सराघवं सैन्यमितीन्द्रशत्रुः
विद्रुतां वाहिनीं दृष्ट्वा वानराणामितस्ततः। कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम्
हनूमांश्चिन्तयामास मतिमान् मारुतात्मजः। एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत्
यद्धि न्याय्यं मया कर्तुं तत् करिष्याम्यसंशयम्। भूत्वा पर्वतसंकाशो नाशयिष्यामि राक्षसम्
मया हते संयति कुम्भकर्णे महाबले मुष्टिविशीर्णदेहे। विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्लवगाः समग्राः
अथवा स्वयमप्येष मोक्षं प्राप्स्यति वानरः। गृहीतोऽयं यदि भवेत् त्रिदशैः सासुरोरगैः
मन्ये न तावदात्मानं बुध्यते वानराधिपः। शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे
अयं मुहूर्तात् सुग्रीवो लब्धसंज्ञो महाहवे। आत्मनो वानराणां च यत् पथ्यं तत् करिष्यति
मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः। अप्रीतिश्च भवेत् कष्टा कीर्तिनाशश्च शाश्वतः
तस्मान्मुहूर्तं कांक्षिष्ये विक्रमं मोक्षितस्य तु। भिन्नं च वानरानीकं तावदाश्वासयाम्यहम्
इत्येवं चिन्तयित्वाथ हनूमान् मारुतात्मजः। भूयः संस्तम्भयामास वानराणां महाचमूम्
स कुम्भकर्णोऽथ विवेश लङ्कां स्फुरन्तमादाय महाहरिं तम्। विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवर्षैरभिपूज्यमानः
लाजगन्धोदवर्षैस्तु सेच्यमानः शनैः शनैः। राजवीथ्यास्तु शीतत्वात् संज्ञां प्राप महाबलः
ततः स संज्ञामुपलभ्य कृच्छ्राद् बलीयसस्तस्य भुजान्तरस्थः। अवेक्षमाणः पुरराजमार्गं विचिन्तयामास मुहुर्महात्मा
एवं गृहीतेन कथं नु नाम शक्यं मया सम्प्रतिकर्तुमद्य। तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम्
ततः कराग्रैः सहसा समेत्य राजा हरीणाममरेन्द्रशत्रोः। खरैश्च कर्णौ दशनैश्च नासां ददंश पादैर्विददार पार्श्वौ
स कुम्भकर्णो हृतकर्णनासो विदारितस्तेन रदैर्नखैश्च। रोषाभिभूतः क्षतजार्द्रगात्रः सुग्रीवमाविध्य पिपेष भूमौ
स भूतले भीमबलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः। जगाम खं कन्दुकवज्जवेन पुनश्च रामेण समाजगाम
कर्णनासाविहीनस्तु कुम्भकर्णो महाबलः। रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैरिव