दत्तप्रहारव्यथिता मुमुहुः शोणितोक्षिताः। निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः
तेषु वानरमुख्येषु पातितेषु महात्मसु। वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः
तं शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः। समारुह्य समुत्पत्य ददंशुश्च महाबलाः
तं नखैर्दशनैश्चापि मुष्टिभिर्बाहुभिस्तथा। कुम्भकर्णं महाबाहुं निजघ्नुः प्लवगर्षभाः
स वानरसहस्रैस्तु विचितः पर्वतोपमः। रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव
बाहुभ्यां वानरान् सर्वान् प्रगृह्य स महाबलः। भक्षयामास संक्रुद्धो गरुडः पन्नगानिव
प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे। नासापुटाभ्यां संजग्मुः कर्णाभ्यां चैव वानराः
भक्षयन् भृशसंक्रुद्धो हरीन् पर्वतसंनिभः। बभञ्ज वानरान् सर्वान् संक्रुद्धो राक्षसोत्तमः
मांसशोणितसंक्लेदां कुर्वन् भूमिं स राक्षसः। चचार हरिसैन्येषु कालाग्निरिव मूर्च्छितः
वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः। शूलहस्तो बभौ युद्धे कुम्भकर्णो महाबलः
यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः। तथा वानरसैन्यानि कुम्भकर्णो ददाह सः
ततस्ते वध्यमानास्तु हतयूथाः प्लवंगमाः। वानरा भयसंविग्ना विनेदुर्विकृतैः स्वरैः
अनेकशो वध्यमानाः कुम्भकर्णेन वानराः। राघवं शरणं जग्मुर्व्यथिता भिन्नचेतसः
प्रभग्नान् वानरान् दृष्ट्वा वज्रहस्तात्मजात्मजः। अभ्यधावत वेगेन कुम्भकर्णं महाहवे
शैलशृङ्गं महद् गृह्य विनदन् स मुहुर्मुहुः। त्रासयन् राक्षसान् सर्वान् कुम्भकर्णपदानुगान्
चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि। स तेनाभिहतो मूर्ध्नि शैलेनेन्द्ररिपुस्तदा
कुम्भकर्णः प्रजज्वाल क्रोधेन महता तदा। सोऽभ्यधावत वेगेन वालिपुत्रममर्षणः
कुम्भकर्णो महानादस्त्रासयन् सर्ववानरान्। शूलं ससर्ज वै रोषादङ्गदे तु महाबलः
तदापतन्तं बलवान् युद्धमार्गविशारदः। लाघवान्मोक्षयामास बलवान् वानरर्षभः
उत्पत्य चैनं तरसा तलेनोरस्यताडयत्। स तेनाभिहतः कोपात् प्रमुमोहाचलोपमः
स लब्धसंज्ञोऽतिबलो मुष्टिं संगृह्य राक्षसः। अपहस्तेन चिक्षेप विसंज्ञः स पपात ह
तस्मिन् प्लवगशार्दूले विसंज्ञे पतिते भुवि। तच्छूलं समुपादाय सुग्रीवमभिदुद्रुवे
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णं महाबलम्। उत्पपात तदा वीरः सुग्रीवो वानराधिपः
स पर्वताग्रमुत्क्षिप्य समाविध्य महाकपिः। अभिदुद्राव वेगेन कुम्भकर्णं महाबलम्
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णः प्लवंगमम्। तस्थौ विवृत्तसर्वाङ्गो वानरेन्द्रस्य सम्मुखः
कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन्। कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत्
पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम्। भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः
त्यज तद् वानरानीकं प्राकृतैः किं करिष्यसि। सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस
तद् वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम्। श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद् वचः
प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजःसुतः। धृतिपौरुषसम्पन्नस्तस्माद् गर्जसि वानर