ततः पर्वतमुत्पाट्य द्विविदः प्लवगर्षभः। दुद्राव गिरिशृङ्गाभं विलम्ब इव तोयदः
तं समुत्पाट्य चिक्षेप कुम्भकर्णाय वानरः। तमप्राप्य महाकायं तस्य सैन्येऽपतत् ततः
ममर्दाश्वान् गजांश्चापि रथांश्चापि गजोत्तमान्। तानि चान्यानि रक्षांसि एवं चान्यद्गिरेः शिरः
तच्छैलवेगाभिहतं हताश्वं हतसारथिम्। रक्षसां रुधिरक्लिन्नं बभूवायोधनं महत्
रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः। शिरांसि नर्दतां जह्रुः सहसा भीमनिःस्वनाः
वानराश्च महात्मानः समुत्पाट्य महाद्रुमान्। रथानश्वान् गजानुष्ट्रान् राक्षसानभ्यसूदयन्
हनूमान् शैलशृङ्गाणि शिलाश्च विविधान् द्रुमान्। ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः
तानि पर्वतशृङ्गाणि शूलेन स बिभेद ह। बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः
ततो हरीणां तदनीकमुग्रं दुद्राव शूलं निशितं प्रगृह्य। तस्थौ स तस्यापततः परस्ता- न्महीधराग्रं हनुमान् प्रगृह्य
स कुम्भकर्णं कुपितो जघान वेगेन शैलोत्तमभीमकायम्। संचुक्षुभे तेन तदाभिभूतो मेदार्द्रगात्रो रुधिरावसिक्तः
स शूलमाविध्य तडित्प्रकाशं गिरिं यथा प्रज्वलिताग्निशृङ्गम्। बाह्वन्तरे मारुतिमाजघान गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या
स शूलनिर्भिन्नमहाभुजान्तरः प्रविह्वलः शोणितमुद्वमन् मुखात् । ननाद भीमं हनुमान् महाहवे युगान्तमेघस्तनितस्वनोपमम्
ततो विनेदुः सहसा प्रहृष्टा रक्षोगणास्तं व्यथितं समीक्ष्य। प्लवंगमास्तु व्यथिता भयार्ताः प्रदुद्रुवुः संयति कुम्भकर्णात्
ततस्तु नीलो बलवान् पर्यवस्थापयन् बलम्। प्रविचिक्षेप शैलाग्रं कुम्भकर्णाय धीमते
तदापतन्तं सम्प्रेक्ष्य मुष्टिनाभिजघान ह। मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत। सविस्फुलिङ्गं सज्वालं निपपात महीतले
ऋषभः शरभो नीलो गवाक्षो गन्धमादनः। पञ्च वानरशार्दूलाः कुम्भकर्णमुपाद्रवन्
शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः। कुम्भकर्णं महाकायं निजघ्नुः सर्वतो युधि
स्पर्शानिव प्रहारांस्तान् वेदयानो न विव्यथे। ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे
कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः। निपपातर्षभो भीमः प्रमुखागतशोणितः
मुष्टिना शरभं हत्वा जानुना नीलमाहवे। आजघान गवाक्षं तु तलेनेन्द्ररिपुस्तदा। पादेनाभ्यहनत् क्रुद्धस्तरसा गन्धमादनम्
दत्तप्रहारव्यथिता मुमुहुः शोणितोक्षिताः। निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः
तेषु वानरमुख्येषु पातितेषु महात्मसु। वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः
तं शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः। समारुह्य समुत्पत्य ददंशुश्च महाबलाः
तं नखैर्दशनैश्चापि मुष्टिभिर्बाहुभिस्तथा। कुम्भकर्णं महाबाहुं निजघ्नुः प्लवगर्षभाः
स वानरसहस्रैस्तु विचितः पर्वतोपमः। रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव
बाहुभ्यां वानरान् सर्वान् प्रगृह्य स महाबलः। भक्षयामास संक्रुद्धो गरुडः पन्नगानिव
प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे। नासापुटाभ्यां संजग्मुः कर्णाभ्यां चैव वानराः
भक्षयन् भृशसंक्रुद्धो हरीन् पर्वतसंनिभः। बभञ्ज वानरान् सर्वान् संक्रुद्धो राक्षसोत्तमः
मांसशोणितसंक्लेदां कुर्वन् भूमिं स राक्षसः। चचार हरिसैन्येषु कालाग्निरिव मूर्च्छितः
वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः। शूलहस्तो बभौ युद्धे कुम्भकर्णो महाबलः