लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः। निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः
लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन्। केचित् समुद्रे पतिताः केचिद् गगनमास्थिताः
वध्यमानास्तु ते वीरा राक्षसेन च लीलया। सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः
ते स्थलानि तदा निम्नं विवर्णवदना भयात्। ऋक्षा वृक्षान् समारूढाः केचित् पर्वतमाश्रिताः
ममज्जुरर्णवे केचिद् गुहाः केचित् समाश्रिताः। निपेतुः केचिदपरे केचिन्नैवावतस्थिरे। केचिद् भूमौ निपतिताः केचित् सुप्ता मृता इव
तान् समीक्ष्याङ्गदो भग्नान् वानरानिदमब्रवीत्। अवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः
भग्नानां वो न पश्यामि परिक्रम्य महीमिमाम्। स्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ
निरायुधानां क्रमतामसङ्गगतिपौरुषाः। दारा ह्युपहसिष्यन्ति स वै घातः सुजीवताम्
कुलेषु जाताः सर्वेऽस्मिन् विस्तीर्णेषु महत्सु च। क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा। अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत
विकत्थनानि वो यानि भवद्भिर्जनसंसदि। तानि वः क्व नु यातानि सोदग्राणि हितानि च
भीरोः प्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः। मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम्
शयामहे वा निहताः पृथिव्यामल्पजीविताः। प्राप्नुयामो ब्रह्मलोकं दुष्प्रापं च कुयोधिभिः
अवाप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे। निहता वीरलोकस्य भोक्ष्यामो वसु वानराः
न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति। दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा
पलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम्। एकेन बहवो भग्ना यशो नाशं गमिष्यति
एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम्। द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम्
कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा। न स्थानकालो गच्छामो दयितं जीवितं हि नः
एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः। भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः
द्रवमाणास्तु ते वीरा अङ्गदेन बलीमुखाः। सान्त्वनैश्चानुमानैश्च ततः सर्वे निवर्तिताः
प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता। आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः
ऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः। द्विविदपनसवायुपुत्रमुख्या- स्त्वरिततराभिमुखं रणं प्रयाताः
thumb|सप्तषष्टितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तषष्टितमः सर्गः ॥६-
ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा। नैष्ठिकीं बुद्धिमास्थाय सर्वे संग्रामकाङ्क्षिणः
समुदीरितवीर्यास्ते समारोपितविक्रमाः। पर्यवस्थापिता वाक्यैरङ्गदेन बलीयसा
प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः। चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः
अथ वृक्षान् महाकायाः सानूनि सुमहान्ति च। वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन्
कुम्भकर्णः सुसंक्रुद्धो गदामुद्यम्य वीर्यवान्। धर्षयन् स महाकायः समन्ताद् व्यक्षिपद् रिपून्
शतानि सप्त चाष्टौ च सहस्राणि च वानराः। प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन ताडिताः
षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च। परिक्षिप्य च बाहुभ्यां खादन् स परिधावति। भक्षयन् भृशसंक्रुद्धो गरुडः पन्नगानिव
कृच्छ्रेण च समाश्वस्ताः संगम्य च ततस्ततः। वृक्षाद्रिहस्ता हरयस्तस्थुः संग्राममूर्धनि