तमवध्यं मघवता यमेन वरुणेन वा। प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः
तांस्तु विप्रद्रुतान् दृष्ट्वा राजपुत्रोऽङ्गदोऽब्रवीत्। नलं नीलं गवाक्षं च कुमुदं च महाबलम्
आत्मनस्तानि विस्मृत्य वीर्याण्यभिजनानि च। क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा
साधु सौम्या निवर्तध्वं किं प्राणान् परिरक्षथ। नालं युद्धाय वै रक्षो महतीयं विभीषिका
महतीमुत्थितामेनां राक्षसानां विभीषिकाम्। विक्रमाद् विधमिष्यामो निवर्तध्वं प्लवङ्गमाः
कृच्छ्रेण तु समाश्वस्य संगम्य च ततस्ततः। वृक्षान् गृहीत्वा हरयः सम्प्रतस्थू रणाजिरे
ते निवर्त्य तु संरब्धाः कुम्भकर्णं वनौकसः। निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः
प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः। पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते
तस्य गात्रेषु पतिता भिद्यन्ते बहवः शिलाः। पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले
सोऽपि सैन्यानि संक्रुद्धौ वानराणां महौजसाम्। ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः
लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः। निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः
लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन्। केचित् समुद्रे पतिताः केचिद् गगनमास्थिताः
वध्यमानास्तु ते वीरा राक्षसेन च लीलया। सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः
ते स्थलानि तदा निम्नं विवर्णवदना भयात्। ऋक्षा वृक्षान् समारूढाः केचित् पर्वतमाश्रिताः
ममज्जुरर्णवे केचिद् गुहाः केचित् समाश्रिताः। निपेतुः केचिदपरे केचिन्नैवावतस्थिरे। केचिद् भूमौ निपतिताः केचित् सुप्ता मृता इव
तान् समीक्ष्याङ्गदो भग्नान् वानरानिदमब्रवीत्। अवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः
भग्नानां वो न पश्यामि परिक्रम्य महीमिमाम्। स्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ
निरायुधानां क्रमतामसङ्गगतिपौरुषाः। दारा ह्युपहसिष्यन्ति स वै घातः सुजीवताम्
कुलेषु जाताः सर्वेऽस्मिन् विस्तीर्णेषु महत्सु च। क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा। अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत
विकत्थनानि वो यानि भवद्भिर्जनसंसदि। तानि वः क्व नु यातानि सोदग्राणि हितानि च
भीरोः प्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः। मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम्
शयामहे वा निहताः पृथिव्यामल्पजीविताः। प्राप्नुयामो ब्रह्मलोकं दुष्प्रापं च कुयोधिभिः
अवाप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे। निहता वीरलोकस्य भोक्ष्यामो वसु वानराः
न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति। दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा
पलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम्। एकेन बहवो भग्ना यशो नाशं गमिष्यति
एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम्। द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम्
कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा। न स्थानकालो गच्छामो दयितं जीवितं हि नः
एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः। भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः
द्रवमाणास्तु ते वीरा अङ्गदेन बलीमुखाः। सान्त्वनैश्चानुमानैश्च ततः सर्वे निवर्तिताः
प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता। आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः