सर्वाभरणसर्वाङ्गः शूलपाणिः स राक्षसः। त्रिविक्रमकृतोत्साहो नारायण इवाबभौ
भ्रातरं सम्परिष्वज्य कृत्वा चापि प्रदक्षिणम्। प्रणम्य शिरसा तस्मै प्रतस्थे स महाबलः
तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः। शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः
तं गजैश्च तुरंगैश्च स्यन्दनैश्चाम्बुदस्वनैः। अनुजग्मुर्महात्मानो रथिनो रथिनां वरम्
सर्पैरुष्ट्रैः खरैश्चैव सिंहद्विपमृगद्विजैः। अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम्
स पुष्पवर्षैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः। मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः
पदातयश्च बहवो महानादा महाबलाः। अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः
रक्ताक्षाः सुबहुव्यामा नीलाञ्जनचयोपमाः। शूलानुद्यम्य खड्गांश्च निशितांश्च परश्वधान्
भिन्दिपालांश्च परिघान् गदाश्च मुसलानि च। तालस्कन्धांश्च विपुलान् क्षेपणीयान् दुरासदान्
अथान्यद्वपुरादाय दारुणं घोरदर्शनम्। निष्पपात महातेजाः कुम्भकर्णो महाबलः
धनुःशतपरीणाहः स षट्शतसमुच्छ्रितः। रौद्रः शकटचक्राक्षो महापर्वतसंनिभः
संनिपत्य च रक्षांसि दग्धशैलोपमो महान्। कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत्
अद्य वानरमुख्यानां तानि यूथानि भागशः। निर्दहिष्यामि संक्रुद्धः पतङ्गानिव पावकः
नापराध्यन्ति मे कामं वानरा वनचारिणः। जातिरस्मद्विधानां सा पुरोद्यानविभूषणम्
पुररोधस्य मूलं तु राघवः सहलक्ष्मणः। हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे
एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः। नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम्
तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः। बभूवुर्घोररूपाणि निमित्तानि समन्ततः
उल्काशनियुता मेघा बभूवुर्गर्दभारुणाः। ससागरवना चैव वसुधा समकम्पत
घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः। मण्डलान्यपसव्यानि बबन्धुश्च विहंगमाः
निष्पपात च गृध्रोऽस्य शूले वै पथि गच्छतः। प्रास्फुरन्नयनं चास्य सव्यो बाहुरकम्पत
निष्पपात तदा चोल्का ज्वलन्ती भीमनिःस्वना। आदित्यो निष्प्रभश्चासीन्न वाति च सुखोऽनिलः
अचिन्तयन् महोत्पातानुदितान् रोमहर्षणान्। निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः
स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसंनिभः। ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम्
ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम्। वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा
तद् वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम्। स कुम्भकर्णः समवेक्ष्य हर्षा- न्ननाद भूयो घनवद्घनाभः
ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य। पेतुर्धरण्यां बहवः प्लवङ्गा निकृत्तमूला इव शालवृक्षाः
विपुलपरिघवान् स कुम्भकर्णो रिपुनिधनाय विनिःसृतो महात्मा। कपिगणभयमाददत् सुभीमं प्रभुरिव किंकरदण्डवान् युगान्ते
thumb|षट्षष्टितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षट्षष्टितमः सर्गः ॥६-
स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान्। निर्ययौ नगरात् तूर्णं कुम्भकर्णो महाबलः
ननाद च महानादं समुद्रमभिनादयन्। विजयन्निव निर्घातान् विधमन्निव पर्वतान्