कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत्। गमिष्याम्यहमेकाकी तिष्ठत्विह बलं मम
अद्य तान् क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान्। कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत्
सैन्यैः परिवृतो गच्छ शूलमुद्गरपाणिभिः। वानरा हि महात्मानः शूराः सुव्यवसायिनः
एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम्। तस्मात् परमदुर्धर्षः सैन्यैः परिवृतो व्रज। रक्षसामहितं सर्वं शत्रुपक्षं निषूदय
अथासनात् समुत्पत्य स्रजं मणिकृतान्तराम्। आबबन्ध महातेजाः कुम्भकर्णस्य रावणः
अङ्गदान्यङ्गुलीवेष्टान् वराण्याभरणानि च। हारं च शशिसंकाशमाबबन्ध महात्मनः
दिव्यानि च सुगन्धीनि माल्यदामानि रावणः। गात्रेषु सज्जयामास श्रोत्रयोश्चास्य कुण्डले
काञ्चनाङ्गदकेयूरनिष्काभरणभूषितः। कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ
श्रोणीसूत्रेण महता मेचकेन व्यराजत। अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः
स काञ्चनं भारसहं निवातं विद्युत्प्रभं दीप्तमिवात्मभासा। आबध्यमानः कवचं रराज संध्याभ्रसंवीत इवाद्रिराजः
सर्वाभरणसर्वाङ्गः शूलपाणिः स राक्षसः। त्रिविक्रमकृतोत्साहो नारायण इवाबभौ
भ्रातरं सम्परिष्वज्य कृत्वा चापि प्रदक्षिणम्। प्रणम्य शिरसा तस्मै प्रतस्थे स महाबलः
तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः। शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः
तं गजैश्च तुरंगैश्च स्यन्दनैश्चाम्बुदस्वनैः। अनुजग्मुर्महात्मानो रथिनो रथिनां वरम्
सर्पैरुष्ट्रैः खरैश्चैव सिंहद्विपमृगद्विजैः। अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम्
स पुष्पवर्षैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः। मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः
पदातयश्च बहवो महानादा महाबलाः। अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः
रक्ताक्षाः सुबहुव्यामा नीलाञ्जनचयोपमाः। शूलानुद्यम्य खड्गांश्च निशितांश्च परश्वधान्
भिन्दिपालांश्च परिघान् गदाश्च मुसलानि च। तालस्कन्धांश्च विपुलान् क्षेपणीयान् दुरासदान्
अथान्यद्वपुरादाय दारुणं घोरदर्शनम्। निष्पपात महातेजाः कुम्भकर्णो महाबलः
धनुःशतपरीणाहः स षट्शतसमुच्छ्रितः। रौद्रः शकटचक्राक्षो महापर्वतसंनिभः
संनिपत्य च रक्षांसि दग्धशैलोपमो महान्। कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत्
अद्य वानरमुख्यानां तानि यूथानि भागशः। निर्दहिष्यामि संक्रुद्धः पतङ्गानिव पावकः
नापराध्यन्ति मे कामं वानरा वनचारिणः। जातिरस्मद्विधानां सा पुरोद्यानविभूषणम्
पुररोधस्य मूलं तु राघवः सहलक्ष्मणः। हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे
एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः। नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम्
तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः। बभूवुर्घोररूपाणि निमित्तानि समन्ततः
उल्काशनियुता मेघा बभूवुर्गर्दभारुणाः। ससागरवना चैव वसुधा समकम्पत
घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः। मण्डलान्यपसव्यानि बबन्धुश्च विहंगमाः
निष्पपात च गृध्रोऽस्य शूले वै पथि गच्छतः। प्रास्फुरन्नयनं चास्य सव्यो बाहुरकम्पत