अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना। प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम्
ततस्तत्कर्मसिद्ध्यर्थं पुत्रांस्तस्य गतो नृपः। वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे
त्रिशङ्कुस्तु महातेजाः शतं परमभास्वरम्। वसिष्ठपुत्रान् ददृशे तप्यमानान् मनस्विनः
सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान्। अभिवाद्यानुपूर्वेण ह्रिया किंचिदवाङ्मुखः
अब्रवीत् स महात्मानः सर्वानेव कृताञ्जलिः। शरणं वः प्रपन्नोऽहं शरण्यान् शरणं गतः
प्रत्याख्यातो हि भद्रं वो वसिष्ठेन महात्मना। यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ
गुरुपुत्रानहं सर्वान् नमस्कृत्य प्रसादये। शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान्
ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः। सशरीरो यथाहं वै देवलोकमवाप्नुयाम्
प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः। गुरुपुत्रानृते सर्वान् नाहं पश्यामि कांचन
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः। तस्मादनन्तरं सर्वे भवन्तो दैवतं मम
thumb|अष्टपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टपञ्चाशः सर्गः ॥१-
ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम्। ऋषिपुत्रशतं राम राजानमिदमब्रवीत्
प्रत्याख्यातोऽसि दुर्मेधो गुरुणा सत्यवादिना। तं कथं समतिक्रम्य शाखान्तरमुपेयिवान्
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः। न चातिक्रमितुं शक्यं वचनं सत्यवादिनः
अशक्यमिति सोवाच वसिष्ठो भगवानृषिः। तं वयं वै समाहर्तुं क्रतुं शक्ताः कथंचन
बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः। याजने भगवान् शक्तस्त्रैलोक्यस्यापि पार्थिव
अवमानं कथं कर्तुं तस्य शक्ष्यामहे वयम्। तेषां तद् वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम्
स राजा पुनरेवैतानिदं वचनमब्रवीत्। प्रत्याख्यातो भगवता गुरुपुत्रैस्तथैव हि
अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः। ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम्
शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसि। इत्युक्त्वा ते महात्मानो विविशुः स्वं स्वमाश्रमम्
अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः। नीलवस्त्रधरो नीलः पुरुषो ध्वस्तमूर्धजः
चित्यमाल्यांगरागश्च आयसाभरणोऽभवत्। तं दृष्ट्वा मन्त्रिणः सर्वे त्यज्य चण्डालरूपिणम्
प्राद्रवन् सहिता राम पौरा येऽस्यानुगामिनः। एको हि राजा काकुत्स्थ जगाम परमात्मवान्
दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम्। विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम्
चण्डालरूपिणं राम मुनिः कारुण्यमागतः। कारुण्यात् स महातेजा वाक्यं परमधार्मिकः
इदं जगाद भद्रं ते राजानं घोरदर्शनम्। किमागमनकार्यं ते राजपुत्र महाबल
अयोध्याधिपते वीर शापाच्चण्डालतां गतः। अथ तद्वाक्यमाकर्ण्य राजा चण्डालतां गतः
अब्रवीत् प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम्। प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च
अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः। सशरीरो दिवं यायामिति मे सौम्यदर्शन
मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम्। अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन