प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिंदम। भोगांश्च परिवारांश्च कामान् वसु च दापय
ततो माल्यानि वासांसि वीराणामनुलेपनम्। पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब
ततोऽस्मिन् बहुलीभूते कौलीने सर्वतो गते। भक्षितः ससुहृद् रामो राक्षसैरिति विश्रुते
प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वयन्। धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय
अनयोपधया राजन् भूयः शोकानुबन्धया। अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति
रमणीयं हि भर्तारं विनष्टमधिगम्य सा। नैराश्यात् स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते
सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्शिता। त्वय्यधीनं सुखं ज्ञात्वा सर्वथैव गमिष्यति
एतत् सुनीतं मम दर्शनेन रामं हि दृष्ट्वैव भवेदनर्थः। इहैव ते सेत्स्यति मोत्सुको भू- र्महानयुद्धेन सुखस्य लाभः
अनष्टसैन्यो ह्यनवाप्तसंशयो रिपुं त्वयुद्धेन जयञ्जनाधिपः। यशश्च पुण्यं च महान्महीपते श्रियं च कीर्तिं च चिरं समश्नुते
thumb|पञ्चषष्टितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चषष्टितमः सर्गः ॥६-
स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम्। अब्रवीद् राक्षसश्रेष्ठं भ्रातरं रावणं ततः
सोऽहं तव भयं घोरं वधात् तस्य दुरात्मनः। रामस्याद्य प्रमार्जामि निर्वैरो हि सुखी भव
गर्जन्ति न वृथा शूरा निर्जला इव तोयदाः। पश्य सम्पद्यमानं तु गर्जितं युधि कर्मणा
न मर्षयन्ति चात्मानं सम्भावयितुमात्मना। अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम्
विक्लवानां ह्यबुद्धीनां राज्ञां पण्डितमानिनाम्। रोचते त्वद्वचो नित्यं कथ्यमानं महोदर
युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः। राजानमनुगच्छद्भिः सर्वं कृत्यं विनाशितम्
राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम्। राजानमिममासाद्य सुहृच्चिह्नममित्रकम्
एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये। दुर्नयं भवतामद्य समीकर्तुं महाहवे
एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः। प्रत्युवाच ततो वाक्यं प्रहसन् राक्षसाधिपः
महोदरोऽयं रामात् तु परित्रस्तो न संशयः। न हि रोचयते तात युद्धं युद्धविशारद
कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च। गच्छ शत्रुवधाय त्वं कुम्भकर्ण जयाय च
शयानः शत्रुनाशार्थं भवान् सम्बोधितो मया। अयं हि कालः सुमहान् राक्षसानामरिंदम
संगच्छ शूलमादाय पाशहस्त इवान्तकः। वानरान् राजपुत्रौ च भक्षयादित्यतेजसौ
समालोक्य तु ते रूपं विद्रविष्यन्ति वानराः। रामलक्ष्मणयोश्चापि हृदये प्रस्फुटिष्यतः
एवमुक्त्वा महातेजाः कुम्भकर्णं महाबलम्। पुनर्जातमिवात्मानं मेने राक्षसपुङ्गवः
कुम्भकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम्। बभूव मुदितो राजा शशाङ्क इव निर्मलः
इत्येवमुक्तः संहृष्टो निर्जगाम महाबलः। राज्ञस्तु वचनं श्रुत्वा योद्धुमुद्युक्तवांस्तदा
आददे निशितं शूलं वेगाच्छत्रुनिबर्हणः। सर्वं कालायसं दीप्तं तप्तकाञ्चनभूषणम्
इन्द्राशनिसमप्रख्यं वज्रप्रतिमगौरवम्। देवदानवगन्धर्वयक्षपन्नगसूदनम्
रक्तमाल्यमहादामं स्वतश्चोद्गतपावकम्। आदाय विपुलं शूलं शत्रुशोणितरञ्जितम्