यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम। कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः
एवमुक्त्वा तु संरब्धं कुम्भकर्णं महोदरः। उवाच रक्षसां मध्ये रावणं लोकरावणम्
लब्ध्वा पुरस्ताद् वैदेहीं किमर्थं त्वं विलम्बसे। यदीच्छसि तदा सीता वशगा ते भविष्यति
दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः। रुचितश्चेत् स्वया बुद्ध्या राक्षसेन्द्र ततः शृणु
अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः। पञ्च रामवधायैते निर्यान्तीत्यवघोषय
ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः। जेष्यामो यदि ते शत्रून् नोपायैः कार्यमस्ति नः
अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः। ततः समभिपत्स्यामो मनसा यत् समीक्षितम्
वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः। विदार्य स्वतनुं बाणै रामनामाङ्कितैः शरैः
भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः। ततः पादौ ग्रहीष्यामस्त्वं नः कामं प्रपूरय
ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव। हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः
प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिंदम। भोगांश्च परिवारांश्च कामान् वसु च दापय
ततो माल्यानि वासांसि वीराणामनुलेपनम्। पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब
ततोऽस्मिन् बहुलीभूते कौलीने सर्वतो गते। भक्षितः ससुहृद् रामो राक्षसैरिति विश्रुते
प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वयन्। धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय
अनयोपधया राजन् भूयः शोकानुबन्धया। अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति
रमणीयं हि भर्तारं विनष्टमधिगम्य सा। नैराश्यात् स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते
सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्शिता। त्वय्यधीनं सुखं ज्ञात्वा सर्वथैव गमिष्यति
एतत् सुनीतं मम दर्शनेन रामं हि दृष्ट्वैव भवेदनर्थः। इहैव ते सेत्स्यति मोत्सुको भू- र्महानयुद्धेन सुखस्य लाभः
अनष्टसैन्यो ह्यनवाप्तसंशयो रिपुं त्वयुद्धेन जयञ्जनाधिपः। यशश्च पुण्यं च महान्महीपते श्रियं च कीर्तिं च चिरं समश्नुते
thumb|पञ्चषष्टितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चषष्टितमः सर्गः ॥६-
स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम्। अब्रवीद् राक्षसश्रेष्ठं भ्रातरं रावणं ततः
सोऽहं तव भयं घोरं वधात् तस्य दुरात्मनः। रामस्याद्य प्रमार्जामि निर्वैरो हि सुखी भव
गर्जन्ति न वृथा शूरा निर्जला इव तोयदाः। पश्य सम्पद्यमानं तु गर्जितं युधि कर्मणा
न मर्षयन्ति चात्मानं सम्भावयितुमात्मना। अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम्
विक्लवानां ह्यबुद्धीनां राज्ञां पण्डितमानिनाम्। रोचते त्वद्वचो नित्यं कथ्यमानं महोदर
युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः। राजानमनुगच्छद्भिः सर्वं कृत्यं विनाशितम्
राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम्। राजानमिममासाद्य सुहृच्चिह्नममित्रकम्
एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये। दुर्नयं भवतामद्य समीकर्तुं महाहवे
एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः। प्रत्युवाच ततो वाक्यं प्रहसन् राक्षसाधिपः
महोदरोऽयं रामात् तु परित्रस्तो न संशयः। न हि रोचयते तात युद्धं युद्धविशारद