हस्ताभ्यामेव संरभ्य हनिष्यामि सवज्रिणम्। यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यति
ततः पास्यन्ति बाणौघा रुधिरं राघवस्य मे। चिन्तया तप्यसे राजन् किमर्थं मयि तिष्ठति
सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः। मुञ्च रामाद् भयं घोरं निहनिष्यामि संयुगे
राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम्। हनूमन्तं च रक्षोघ्नं येन लङ्का प्रदीपिता
हरींश्च भक्षयिष्यामि संयुगे समुपस्थिते। असाधारणमिच्छामि तव दातुं महद् यशः
यदि चेन्द्राद् भयं राजन् यदि चापि स्वयंभुवः। ततोऽहं नाशयिष्यामि नैशं तम इवांशुमान्
अपि देवाः शयिष्यन्ते मयि क्रुद्धे महीतले। यमं च शमयिष्यामि भक्षयिष्यामि पावकम्
आदित्यं पातयिष्यामि सनक्षत्रं महीतले। शतक्रतुं वधिष्यामि पास्यामि वरुणालयम्
पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम्। दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम्
अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः। न त्विदं त्रिदिवं सर्वमाहारो मम पूर्यते
वधेन ते दाशरथेः सुखावहं सुखं समाहर्तुमहं व्रजामि। निहत्य रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान्
रमस्व राजन् पिब चाद्य वारुणीं कुरुष्व कृत्यानि विनीय दुःखम्। मयाद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति
thumb|चतुष्षष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुष्षष्ठितमः सर्गः ॥६-
तदुक्तमतिकायस्य बलिनो बाहुशालिनः। कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः
कुम्भकर्ण कुले जातो धृष्टः प्राकृतदर्शनः। अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम्
नहि राजा न जानीते कुम्भकर्ण नयानयौ। त्वं तु कैशोरकाद् धृष्टः केवलं वक्तुमिच्छसि
स्थानं वृद्धिं च हानिं च देशकालविधानवित्। आत्मनश्च परेषां च बुध्यते राक्षसर्षभः
यत् त्वशक्यं बलवता वक्तुं प्राकृतबुद्धिना। अनुपासितवृद्धेन कः कुर्यात् तादृशं बुधः
यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान्। अवबोद्धुं स्वभावेन नहि लक्षणमस्ति तान्
कर्म चैव हि सर्वेषां कारणानां प्रयोजनम्। श्रेयः पापीयसां चात्र फलं भवति कर्मणाम्
निःश्रेयसफलावेव धर्मार्थावितरावपि। अधर्मानर्थयोः प्राप्तं फलं च प्रत्यवायिकम्
ऐहलौकिकपारक्यं कर्म पुंभिर्निषेव्यते। कर्माण्यपि तु कल्याणि लभते काममास्थितः
तत्र क्लृप्तमिदं राज्ञा हृदि कार्यं मतं च नः। शत्रौ हि साहसं यत् तत् किमिवात्रापनीयते
एकस्यैवाभियाने तु हेतुर्यः प्राहृतस्त्वया। तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च
येन पूर्वं जनस्थाने बहवोऽतिबला हताः। राक्षसा राघवं तं त्वं कथमेको जयिष्यसि
ये पूर्वं निर्जितास्तेन जनस्थाने महौजसः। राक्षसांस्तान् पुरे सर्वान् भीतानद्य न पश्यसि
तं सिंहमिव संक्रुद्धं रामं दशरथात्मजम्। सर्पं सुप्तमहो बुद्ध्वा प्रबोधयितुमिच्छसि
ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम्। कस्तं मृत्युमिवासह्यमासादयितुमर्हति
संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने। एकस्य गमनं तात नहि मे रोचते भृशम्
हीनार्थस्तु समृद्धार्थं को रिपुं प्राकृतं यथा। निश्चितं जीवितत्यागे वशमानेतुमिच्छति