यदि कार्यं ममैतत्ते हृदि कार्यतमं मतम्। स सुहृद् यो विपन्नार्थं दीनमभ्युपपद्यते
स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते। तमथैवं ब्रुवाणं स वचनं धीरदारुणम्
रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह। अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम्
कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन्। शृणु राजन्नवहितो मम वाक्यमरिंदम
अलं राक्षसराजेन्द्र संतापमुपपद्य ते। रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि
नैतन्मनसि कर्तव्यं मयि जीवति पार्थिव। तमहं नाशयिष्यामि यत् कृते परितप्यते
अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव। बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव
सदृशं यच्च कालेऽस्मिन् कर्तुं स्नेहेन बन्धुना। शत्रूणां कदनं पश्य क्रियमाणं मया रणे
अद्य पश्य महाबाहो मया समरमूर्धनि। हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम्
अद्य रामस्य तद् दृष्ट्वा मयाऽऽनीतं रणाच्छिरः। सुखी भव महाबाहो सीता भवतु दुःखिता
अद्य रामस्य पश्यन्तु निधनं सुमहत् प्रियम्। लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः
अद्य शोकपरीतानां स्वबन्धुवधशोचिनाम्। शत्रोर्युधि विनाशेन करोम्यश्रुप्रमार्जनम्
अद्य पर्वतसंकाशं ससूर्यमिव तोयदम्। विकीर्णं पश्य समरे सुग्रीवं प्लवगेश्वरम्
कथं च राक्षसैरेभिर्मया च परिसान्त्वितः। जिघांसुभिर्दाशरथिं व्यथसे त्वं सदानघ
मां निहत्य किल त्वां हि निहनिष्यति राघवः। नाहमात्मनि संतापं गच्छेयं राक्षसाधिप
कामं त्विदानीमपि मां व्यादिश त्वं परंतप। न परः प्रेक्षणीयस्ते युद्धायातुलविक्रम
अहमुत्सादयिष्यामि शत्रूंस्तव महाबलान्। यदि शक्रो यदि यमो यदि पावकमारुतौ
तानहं योधयिष्यामि कुबेरवरुणावपि। गिरिमात्रशरीरस्य शितशूलधरस्य मे
नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाद् वै पुरंदरः। अथ वा त्यक्तशस्त्रस्य मृद्नतस्तरसा रिपून्
न मे प्रतिमुखः कश्चित् स्थातुं शक्तो जिजीविषुः। नैव शक्त्या न गदया नासिना निशितैः शरैः
हस्ताभ्यामेव संरभ्य हनिष्यामि सवज्रिणम्। यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यति
ततः पास्यन्ति बाणौघा रुधिरं राघवस्य मे। चिन्तया तप्यसे राजन् किमर्थं मयि तिष्ठति
सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः। मुञ्च रामाद् भयं घोरं निहनिष्यामि संयुगे
राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम्। हनूमन्तं च रक्षोघ्नं येन लङ्का प्रदीपिता
हरींश्च भक्षयिष्यामि संयुगे समुपस्थिते। असाधारणमिच्छामि तव दातुं महद् यशः
यदि चेन्द्राद् भयं राजन् यदि चापि स्वयंभुवः। ततोऽहं नाशयिष्यामि नैशं तम इवांशुमान्
अपि देवाः शयिष्यन्ते मयि क्रुद्धे महीतले। यमं च शमयिष्यामि भक्षयिष्यामि पावकम्
आदित्यं पातयिष्यामि सनक्षत्रं महीतले। शतक्रतुं वधिष्यामि पास्यामि वरुणालयम्
पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम्। दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम्
अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः। न त्विदं त्रिदिवं सर्वमाहारो मम पूर्यते