त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि
तदेतत् सर्वमातिष्ठ वीर्यं भीमपराक्रम। नहि ते सर्वभूतेषु दृश्यते सदृशो बली
कुरुष्व मे प्रियहितमेतदुत्तमं यथाप्रियं प्रियरण बान्धवप्रिय। स्वतेजसा व्यथय सपत्नवाहिनीं शरद्घनं पवन इवोद्यतो महान्
thumb|त्रिषष्टितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रिषष्टितमः सर्गः ॥६-
तस्य राक्षसराजस्य निशम्य परिदेवितम्। कुम्भकर्णो बभाषेदं वचनं प्रजहास च
दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये। हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया
शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः। निरयेष्वेव पतनं यथा दुष्कृतकर्मणः
प्रथमं वै महाराज कृत्यमेतदचिन्तितम्। केवलं वीर्यदर्पेण नानुबन्धो विचारितः
यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः। पूर्वं चोत्तरकार्याणि न स वेद नयानयौ
देशकालविहीनानि कर्माणि विपरीतवत्। क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव
त्रयाणां पञ्चधा योगं कर्मणां यः प्रपद्यते। सचिवैः समयं कृत्वा स सम्यग् वर्तते पथि
यथागमं च यो राजा समयं च चिकीर्षति। बुध्यते सचिवैर्बुद्ध्या सुहृदश्चानुपश्यति
धर्ममर्थं हि कामं वा सर्वान् वा रक्षसां पते। भजेत पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः
त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते। राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम्
उपप्रदानं सान्त्वं च भेदं काले च विक्रमम्। योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ
काले धर्मार्थकामान् यः सम्मन्त्र्य सचिवैः सह। निषेवेतात्मवाँल्लोके न स व्यसनमाप्नुयात्
हितानुबन्धमालोक्य कुर्यात् कार्यमिहात्मनः। राजा सहार्थतत्त्वज्ञैः सचिवैर्बुद्धिजीविभिः
अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः। प्रागल्भ्याद् वक्तुमिच्छन्ति मन्त्रिष्वभ्यन्तरीकृताः
अशास्त्रविदुषां तेषां कार्यं नाभिहितं वचः। अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम्
अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः। अवश्यं मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषकाः
विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः। विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः
तान् भर्ता मित्रसंकाशानमित्रान् मन्त्रनिर्णये। व्यवहारेण जानीयात् सचिवानुपसंहितान्
चपलस्येह कृत्यानि सहसानुप्रधावतः। छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः
यो हि शत्रुमवज्ञाय आत्मानं नाभिरक्षति। अवाप्नोति हि सोऽनर्थान् स्थानाच्च व्यवरोप्यते
यदुक्तमिह ते पूर्वं प्रियया मेऽनुजेन च। तदेव नो हितं वाक्यं यथेच्छसि तथा कुरु
तत् तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम्। भ्रुकुटिं चैव संचक्रे क्रुद्धश्चैनमभाषत
मान्यो गुरुरिवाचार्यः किं मां त्वमनुशाससे। किमेवं वाक्श्रमं कृत्वा यद् युक्तं तद् विधीयताम्
विभ्रमाच्चित्तमोहाद् वा बलवीर्याश्रयेण वा। नाभिपन्नमिदानीं यद् व्यर्था तस्य पुनः कथा
अस्मिन् काले तु यद् युक्तं तदिदानीं विचिन्त्यताम्। गतं तु नानुशोचन्ति गतं तु गतमेव हि
ममापनयजं दोषं विक्रमेण समीकुरु। यदि खल्वस्ति मे स्नेहो विक्रमं वाधिगच्छसि