उच्यन्तां वानराः सर्वे यन्त्रमेतत् समुच्छ्रितम्। इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः
विभीषणवचः श्रुत्वा हेतुमत् सुमुखोद्गतम्। उवाच राघवो वाक्यं नीलं सेनापतिं तदा
गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके। द्वाराण्यादाय लङ्कायाश्चर्याश्चास्याथ संक्रमान्
शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहरन्। भवन्तः सायुधाः सर्वे वानराः शैलपाणयः
राघवेण समादिष्टो नीलो हरिचमूपतिः। शशास वानरानीकं यथावत् कपिकुञ्जरः
ततो गवाक्षः शरभो हनूमानङ्गदस्तथा। शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः
रामवाक्यमुपश्रुत्य हरयो जितकाशिनः। पादपैरर्दयन् वीरा वानराः परवाहिनीम्
ततो हरीणां तदनीकमुग्रं रराज शैलोद्यतवृक्षहस्तम्। गिरेः समीपानुगतं यथैव महन्महाम्भोधरजालमुग्रम्
thumb|द्विषष्टितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्विषष्टितमः सर्गः ॥६-
स तु राक्षसशार्दूलो निद्रामदसमाकुलः। राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः
राक्षसानां सहस्रैश्च वृतः परमदुर्जयः। गृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ
स हेमजालविततं भानुभास्वरदर्शनम्। ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम्
स तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोधिपतेर्निवेशनम्। ददर्श दूरेऽग्रजमासनस्थं स्वयंभुवं शक्र इवासनस्थम्
भ्रातुः स भवनं गच्छन् रक्षोगणसमन्वितः। कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम्
सोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च। ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम्
अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम्। तूर्णमुत्थाय संहृष्टः संनिकर्षमुपानयत्
अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः। भ्रातुर्ववन्दे चरणौ किं कृत्यमिति चाब्रवीत्
उत्पत्य चैनं मुदितो रावणः परिषस्वजे। स भ्रात्रा सम्परिष्वक्तो यथावच्चाभिनन्दितः
कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम्। स तदासनमाश्रित्य कुम्भकर्णो महाबलः
संरक्तनयनः क्रोधाद् रावणं वाक्यमब्रवीत्। किमर्थमहमादृत्य त्वया राजन् प्रबोधितः
शंस कस्माद् भयं तेऽत्र को वा प्रेतो भविष्यति। भ्रातरं रावणः क्रुद्धं कुम्भकर्णमवस्थितम्
रोषेण परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत्। अद्य ते सुमहान् कालः शयानस्य महाबल
सुषुप्तस्त्वं न जानीषे मम रामकृतं भयम्। एष दाशरथिः श्रीमान् सुग्रीवसहितो बली
समुद्रं लङ्घयित्वा तु मूलं नः परिकृन्तति। हन्त पश्यस्व लङ्कायां वनान्युपवनानि च
सेतुना सुखमागत्य वानरैकार्णवं कृतम्। ये राक्षसा मुख्यतमा हतास्ते वानरैर्युधि
वानराणां क्षयं युद्धे न पश्यामि कथंचन। न चापि वानरा युद्धे जितपूर्वाः कदाचन
तदेतद् भयमुत्पन्नं त्रायस्वेह महाबल। नाशय त्वमिमानद्य तदर्थं बोधितो भवान्
सर्वक्षपितकोशं च स त्वमभ्युपपद्य माम्। त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम्
भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम्। मयैवं नोक्तपूर्वो हि भ्राता कश्चित् परंतप
त्वय्यस्ति मम च स्नेहः परा सम्भावना च मे। देवासुरेषु युद्धेषु बहुशो राक्षसर्षभ