निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महाबलः। अमोघं ते बलं श्रेष्ठ लोकाः सन्तु गतव्यथाः
एवमुक्तो महातेजाः शमं चक्रे महाबलः। विश्वामित्रो विनिकृतो विनिःश्वस्येदमब्रवीत्
धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्। एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे
तदेतत् प्रसमीक्ष्याहं प्रसन्नेन्द्रियमानसः। तपो महत् समास्थास्ये यद् वै ब्रह्मत्वकारणम्
thumb|सप्तपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तपञ्चाशः सर्गः ॥१-
ततः संतप्तहृदयः स्मरन्निग्रहमात्मनः। विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना
स दक्षिणां दिशं गत्वा महिष्या सह राघव। तताप परमं घोरं विश्वामित्रो महातपाः
फलमूलाशनो दान्तश्चचार परमं तपः। अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः
हविष्पन्दो मधुष्पन्दो दृढनेत्रो महारथः। पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्। जिता राजर्षिलोकास्ते तपसा कुशिकात्मज
अनेन तपसा त्वां हि राजर्षिरिति विद्महे। एवमुक्त्वा महातेजा जगाम सह दैवतैः
त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः। विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किंचिदवाङ्मुखः
दुःखेन महताविष्टः समन्युरिदमब्रवीत्। तपश्च सुमहत् तप्तं राजर्षिरिति मां विदुः
देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपः फलम्। एवं निश्चित्य मनसा भूय एव महातपाः
तपश्चचार धर्मात्मा काकुत्स्थ परमात्मवान्। एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः
त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्धनः। तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव
गच्छेयं स्वशरीरेण देवतानां परां गतिम्। वसिष्ठं स समाहूय कथयामास चिन्तितम्
अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना। प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम्
ततस्तत्कर्मसिद्ध्यर्थं पुत्रांस्तस्य गतो नृपः। वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे
त्रिशङ्कुस्तु महातेजाः शतं परमभास्वरम्। वसिष्ठपुत्रान् ददृशे तप्यमानान् मनस्विनः
सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान्। अभिवाद्यानुपूर्वेण ह्रिया किंचिदवाङ्मुखः
अब्रवीत् स महात्मानः सर्वानेव कृताञ्जलिः। शरणं वः प्रपन्नोऽहं शरण्यान् शरणं गतः
प्रत्याख्यातो हि भद्रं वो वसिष्ठेन महात्मना। यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ
गुरुपुत्रानहं सर्वान् नमस्कृत्य प्रसादये। शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान्
ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः। सशरीरो यथाहं वै देवलोकमवाप्नुयाम्
प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः। गुरुपुत्रानृते सर्वान् नाहं पश्यामि कांचन
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः। तस्मादनन्तरं सर्वे भवन्तो दैवतं मम
thumb|अष्टपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टपञ्चाशः सर्गः ॥१-
ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम्। ऋषिपुत्रशतं राम राजानमिदमब्रवीत्
प्रत्याख्यातोऽसि दुर्मेधो गुरुणा सत्यवादिना। तं कथं समतिक्रम्य शाखान्तरमुपेयिवान्