सतोयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम्। दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः
विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसम्। सविस्मितमिदं रामो विभीषणमुवाच ह
कोऽसौ पर्वतसंकाशः किरीटी हरिलोचनः। लङ्कायां दृश्यते वीरः सविद्युदिव तोयदः
पृथिव्यां केतुभूतोऽसौ महानेकोऽत्र दृश्यते। यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः
आचक्ष्व सुमहान् कोऽसौ रक्षो वा यदि वासुरः। न मयैवंविधं भूतं दृष्टपूर्वं कदाचन
सम्पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा। विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत्
येन वैवस्वतो युद्धे वासवश्च पराजितः। सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान्। अस्य प्रमाणसदृशो राक्षसोऽन्यो न विद्यते
एतेन देवा युधि दानवाश्च यक्षा भुजंगाः पिशिताशनाश्च। गन्धर्वविद्याधरकिंनराश्च सहस्रशो राघव सम्प्रभग्नाः
शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम्। हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः
प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः। अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम्
बालेन जातमात्रेण क्षुधार्तेन महात्मना। भक्षितानि सहस्राणि प्रजानां सुबहून्यपि
तेषु सम्भक्ष्यमाणेषु प्रजा भयनिपीडिताः। यान्त स्म शरणं शक्रं तमप्यर्थं न्यवेदयन्
स कुम्भकर्णं कुपितो महेन्द्रो जघान वज्रेण शितेन वज्री। स शक्रवज्राभिहतो महात्मा चचाल कोपाच्च भृशं ननाद
तस्य नानद्यमानस्य कुम्भकर्णस्य रक्षसः। श्रुत्वा निनादं वित्रस्ताः प्रजा भूयो वितत्रसुः
ततः क्रुद्धो महेन्द्रस्य कुम्भकर्णो महाबलः। निष्कृष्यैरावताद् दन्तं जघानोरसि वासवम्
कुम्भकर्णप्रहारार्तो विजज्वाल स वासवः। ततो विषेदुः सहसा देवा ब्रह्मर्षिदानवाः
प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयंभुवः। कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः
प्रजानां भक्षणं चापि देवानां चापि धर्षणम्। आश्रमध्वंसनं चापि परस्त्रीहरणं भृशम्
एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः। अचिरेणैव कालेन शून्यो लोको भविष्यति
वासवस्य वचः श्रुत्वा सर्वलोकपितामहः। रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह
कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः। कुम्भकर्णमथाश्वास्तः स्वयंभूरिदमब्रवीत्
ध्रुवं लोकविनाशाय पौलस्त्येनासि निर्मितः। तस्मात् त्वमद्यप्रभृति मृतकल्पः शयिष्यसे
ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः। ततः परमसम्भ्रान्तो रावणो वाक्यमब्रवीत्
प्रवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते। न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते
न मिथ्यावचनश्च त्वं स्वप्स्यत्येव न संशयः। कालस्तु क्रियतामस्य शयने जागरे तथा
रावणस्य वचः श्रुत्वा स्वयंभूरिदमब्रवीत्। शयिता ह्येष षण्मासमेकाहं जागरिष्यति
एकेनाह्ना त्वसौ वीरश्चरन् भूमिं बुभुक्षितः। व्यात्तास्यो भक्षयेल्लोकान् संवृद्ध इव पावकः
सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत्। त्वत्पराक्रमभीतश्च राजा सम्प्रति रावणः
स एष निर्गतो वीरः शिबिराद् भीमविक्रमः। वानरान् भृशसंक्रुद्धो भक्षयन् परिधावति
कुम्भकर्णं समीक्ष्यैव हरयोऽद्य प्रदुद्रुवुः। कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः