रावणस्य वचः श्रुत्वा गुणदोषौ विमृश्य च। पश्चादपि महाबाहो शत्रून् युधि विजेष्यसि
महोदरवचः श्रुत्वा राक्षसैः परिवारितः। कुम्भकर्णो महातेजाः सम्प्रतस्थे महाबलः
सुप्तमुत्थाप्य भीमाक्षं भीमरूपपराक्रमम्। राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम्
तेऽभिगम्य दशग्रीवमासीनं परमासने। ऊचुर्बद्धाञ्जलिपुटाः सर्व एव निशाचराः
कुम्भकर्णः प्रबुद्धोऽसौ भ्राता ते राक्षसेश्वर। कथं तत्रैव निर्यातु द्रक्ष्यसे तमिहागतम्
रावणस्त्वब्रवीद्धृष्टो राक्षसांस्तानुपस्थितान्। द्रष्टुमेनमिहेच्छामि यथान्यायं च पूज्यताम्
तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः। कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः
द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुङ्गवः। गमने क्रियतां बुद्धिर्भ्रातरं सम्प्रहर्षय
कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम्। तथेत्युक्त्वा महावीर्यः शयनादुत्पपात ह
प्रक्षाल्य वदनं हृष्टः स्नातः परमहर्षितः। पिपासुस्त्वरयामास पानं बलसमीरणम्
ततस्ते त्वरितास्तत्र राक्षसा रावणाज्ञया। मद्यं भक्ष्यांश्च विविधान् क्षिप्रमेवोपहारयन्
पीत्वा घटसहस्रे द्वे गमनायोपचक्रमे। ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः
कुम्भकर्णो बभौ रुष्टः कालान्तकयमोपमः। भ्रातुः स भवनं गच्छन् रक्षोबलसमन्वितः। कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम्
स राजमार्गं वपुषा प्रकाशयन् सहस्ररश्मिर्धरणीमिवांशुभिः। जगाम तत्राञ्जलिमालया वृतः शतक्रतुर्गेहमिव स्वयंभुवः
तं राजमार्गस्थममित्रघातिनं वनौकसस्ते सहसा बहिःस्थिताः। दृष्ट्वाप्रमेयं गिरिशृङ्गकल्पं वितत्रसुस्ते सह यूथपालैः
केचिच्छरण्यं शरणं स्म रामं व्रजन्ति केचिद् व्यथिताः पतन्ति। केचिद् दशश्च व्यथिताः पतन्ति केचिद् भयार्ता भुवि शेरते स्म
तमद्रिशृङ्गप्रतिमं किरीटिनं स्पृशन्तमादित्यमिवात्मतेजसा। वनौकसः प्रेक्ष्य विवृद्धमद्भुतं भयार्दिता दुद्रुविरे यतस्ततः
thumb|एकषष्टितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकषष्टितमः सर्गः ॥६-
ततो रामो महातेजा धनुरादाय वीर्यवान्। किरीटिनं महाकायं कुम्भकर्णं ददर्श ह
तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम्। क्रममाणमिवाकाशं पुरा नारायणं यथा
सतोयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम्। दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः
विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसम्। सविस्मितमिदं रामो विभीषणमुवाच ह
कोऽसौ पर्वतसंकाशः किरीटी हरिलोचनः। लङ्कायां दृश्यते वीरः सविद्युदिव तोयदः
पृथिव्यां केतुभूतोऽसौ महानेकोऽत्र दृश्यते। यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः
आचक्ष्व सुमहान् कोऽसौ रक्षो वा यदि वासुरः। न मयैवंविधं भूतं दृष्टपूर्वं कदाचन
सम्पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा। विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत्
येन वैवस्वतो युद्धे वासवश्च पराजितः। सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान्। अस्य प्रमाणसदृशो राक्षसोऽन्यो न विद्यते
एतेन देवा युधि दानवाश्च यक्षा भुजंगाः पिशिताशनाश्च। गन्धर्वविद्याधरकिंनराश्च सहस्रशो राघव सम्प्रभग्नाः
शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम्। हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः
प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः। अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम्