अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम्। केशानन्ये प्रलुलुपुः कर्णानन्ये दशन्ति च
उदकुम्भशतानन्ये समसिञ्चन्त कर्णयोः। न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः
अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः। मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान्
रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः। वध्यमानो महाकायो न प्राबुध्यत राक्षसः
वारणानां सहस्रं च शरीरेऽस्य प्रधावितम्। कुम्भकर्णस्तदा बुद्ध्वा स्पर्शं परमबुध्यत
स पात्यमानैर्गिरिशृङ्गवृक्षै- रचिन्तयंस्तान् विपुलान् प्रहारान्। निद्राक्षयात् क्षुद्भयपीडितश्च विजृम्भमाणः सहसोत्पपात
स नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहू जितवज्रसारौ। विवृत्य वक्त्रं वडवामुखाभं निशाचरोऽसौ विकृतं जजृम्भे
तस्य जाजृम्भमाणस्य वक्त्रं पातालसंनिभम्। ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः
स जृम्भमाणोऽतिबलः प्रबुद्धस्तु निशाचरः। निःश्वासश्चास्य संजज्ञे पर्वतादिव मारुतः
तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी। ददृशाते महानेत्रे दीप्ताविव महाग्रहौ
ततस्त्वदर्शयन् सर्वान् भक्ष्यांश्च विविधान् बहून्। वराहान् महिषांश्चैव बभक्ष स महाबलः
आदद् बुभुक्षितो मांसं शोणितं तृषितोऽपिबत्। मेदःकुम्भांश्च मद्यांश्च पपौ शक्ररिपुस्तदा
ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः। शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन्
निद्राविशदनेत्रस्तु कलुषीकृतलोचनः। चारयन् सर्वतो दृष्टिं तान् ददर्श निशाचरान्
स सर्वान् सान्त्वयामास नैर्ऋतान् नैर्ऋतर्षभः। बोधनाद् विस्मितश्चापि राक्षसानिदमब्रवीत्
किमर्थमहमादृत्य भवद्भिः प्रतिबोधितः। कच्चित् सुकुशलं राज्ञो भयं वा नेह किंचन
अथवा ध्रुवमन्येभ्यो भयं परमुपस्थितम्। यदर्थमेव त्वरितैर्भवद्भिः प्रतिबोधितः
अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम्। दारयिष्ये महेन्द्रं वा शीतयिष्ये तथानलम्
न ह्यल्पकारणे सुप्तं बोधयिष्यति मादृशम्। तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम्
एवं ब्रुवाणं संरब्धं कुम्भकर्णमरिंदमम्। यूपाक्षः सचिवो राज्ञः कृताञ्जलिरभाषत
न नो देवकृतं किंचिद् भयमस्ति कदाचन। मानुषान्नो भयं राजंस्तुमुलं सम्प्रबाधते
न दैत्यदानवेभ्यो वा भयमस्ति न नः क्वचित्। यादृशं मानुषं राजन् भयमस्मानुपस्थितम्
वानरैः पर्वताकारैर्लङ्केयं परिवारिता। सीताहरणसंतप्ताद् रामान्नस्तुमुलं भयम्
एकेन वानरेणेयं पूर्वं दग्धा महापुरी। कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः
स्वयं रक्षोधिपश्चापि पौलस्त्यो देवकण्टकः। व्रजेति संयुगे मुक्तो रामेणादित्यवर्चसा
यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैः। कृतः स इह रामेण विमुक्तः प्राणसंशयात्
स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराभवम्। कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत्
सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम्। राघवं च रणे जित्वा ततो द्रक्ष्यामि रावणम्
राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः। रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम्
तत् तस्य वाक्यं ब्रुवतो निशम्य सगर्वितं रोषविवृद्धदोषम्। महोदरो नैर्ऋतयोधमुख्यः कृताञ्जलिर्वाक्यमिदं बभाषे