तस्य निःश्वासवातेन कुम्भकर्णस्य रक्षसः। राक्षसाः कुम्भकर्णस्य स्थातुं शेकुर्न चाग्रतः
ततः परिहिता गाढं राक्षसा भीमविक्रमाः। मृदङ्गपणवान् भेरीः शङ्खकुम्भगणांस्तथा
दश राक्षससाहस्रं युगपत्पर्यवारयत्। नीलाञ्जनचयाकारं ते तु तं प्रत्यबोधयन्
अभिघ्नन्तो नदन्तश्च न च सम्बुबुधे तदा। यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा
ततो गुरुतरं यत्नं दारुणं समुपाक्रमन्। अश्वानुष्ट्रान् खरान् नागाञ्जघ्नुर्दण्डकशाङ्कुशैः
भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन्। निजघ्नुश्चास्य गात्राणि महाकाष्ठकटंकरैः
मुद्गरैर्मुसलैश्चापि सर्वप्राणसमुद्यतैः। तेन नादेन महता लङ्का सर्वा प्रपूरिता। सपर्वतवना सर्वा सोऽपि नैव प्रबुध्यते
ततो भेरीसहस्रं तु युगपत् समहन्यत। मृष्टकाञ्चनकोणानामसक्तानां समन्ततः
एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यते। शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः
ततः कोपसमाविष्टाः सर्वे भीमपराक्रमाः। तद् रक्षो बोधयिष्यन्तश्चक्रुरन्ये पराक्रमम्
अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम्। केशानन्ये प्रलुलुपुः कर्णानन्ये दशन्ति च
उदकुम्भशतानन्ये समसिञ्चन्त कर्णयोः। न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः
अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः। मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान्
रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः। वध्यमानो महाकायो न प्राबुध्यत राक्षसः
वारणानां सहस्रं च शरीरेऽस्य प्रधावितम्। कुम्भकर्णस्तदा बुद्ध्वा स्पर्शं परमबुध्यत
स पात्यमानैर्गिरिशृङ्गवृक्षै- रचिन्तयंस्तान् विपुलान् प्रहारान्। निद्राक्षयात् क्षुद्भयपीडितश्च विजृम्भमाणः सहसोत्पपात
स नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहू जितवज्रसारौ। विवृत्य वक्त्रं वडवामुखाभं निशाचरोऽसौ विकृतं जजृम्भे
तस्य जाजृम्भमाणस्य वक्त्रं पातालसंनिभम्। ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः
स जृम्भमाणोऽतिबलः प्रबुद्धस्तु निशाचरः। निःश्वासश्चास्य संजज्ञे पर्वतादिव मारुतः
तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी। ददृशाते महानेत्रे दीप्ताविव महाग्रहौ
ततस्त्वदर्शयन् सर्वान् भक्ष्यांश्च विविधान् बहून्। वराहान् महिषांश्चैव बभक्ष स महाबलः
आदद् बुभुक्षितो मांसं शोणितं तृषितोऽपिबत्। मेदःकुम्भांश्च मद्यांश्च पपौ शक्ररिपुस्तदा
ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः। शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन्
निद्राविशदनेत्रस्तु कलुषीकृतलोचनः। चारयन् सर्वतो दृष्टिं तान् ददर्श निशाचरान्
स सर्वान् सान्त्वयामास नैर्ऋतान् नैर्ऋतर्षभः। बोधनाद् विस्मितश्चापि राक्षसानिदमब्रवीत्
किमर्थमहमादृत्य भवद्भिः प्रतिबोधितः। कच्चित् सुकुशलं राज्ञो भयं वा नेह किंचन
अथवा ध्रुवमन्येभ्यो भयं परमुपस्थितम्। यदर्थमेव त्वरितैर्भवद्भिः प्रतिबोधितः
अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम्। दारयिष्ये महेन्द्रं वा शीतयिष्ये तथानलम्
न ह्यल्पकारणे सुप्तं बोधयिष्यति मादृशम्। तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम्
एवं ब्रुवाणं संरब्धं कुम्भकर्णमरिंदमम्। यूपाक्षः सचिवो राज्ञः कृताञ्जलिरभाषत