सेयं सीता महाभागा जाता जनकनन्दिनी। उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका
यथोक्तास्तन्मया प्राप्तं न मिथ्या ऋषिभाषितम्। एतदेव समागम्य यत्नं कर्तुमिहार्हथ
राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु। स चाप्रतिमगाम्भीर्यो देवदानवदर्पहा
ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम्। समरे जितमात्मानं प्रहस्तं च निषूदितम्
ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः। द्वारेषु यत्नः क्रियतां प्राकारश्चाधिरुह्यताम्
निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम्। सुखं स्वपिति निश्चिन्तः कामोपहतचेतनः
नव सप्त दशाष्टौ च मासान् स्वपिति राक्षसः। मन्त्रं कृत्वा प्रसुप्तोऽयमितस्तु नवमेऽहनि
तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम्। स हि संख्ये महाबाहुः ककुदं सर्वरक्षसाम्। वानरान् राजपुत्रौ च क्षिप्रमेव हनिष्यति
एष केतुः परं संख्ये मुख्यो वै सर्वरक्षसाम्। कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः
रामेणाभिनिरस्तस्य संग्रामेऽस्मिन् सुदारुणे। भविष्यति न मे शोकः कुम्भकर्णे विबोधिते
किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि। ईदृशे व्यसने घोरे यो न साह्याय कल्पते
ते तु तद् वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः। जग्मुः परमसम्भ्रान्ताः कुम्भकर्णनिवेशनम्
ते रावणसमादिष्टा मांसशोणितभोजनाः। गन्धं माल्यं महद्भक्ष्यमादाय सहसा ययुः
तां प्रविश्य महाद्वारां सर्वतो योजनायताम्। कुम्भकर्णगुहां रम्यां पुष्पगन्धप्रवाहिनीम्
कुम्भकर्णस्य निःश्वासादवधूता महाबलाः। प्रतिष्ठमानाः कृच्छ्रेण यत्नात् प्रविविशुर्गुहाम्
तां प्रविश्य गुहां रम्यां रत्नकाञ्चनकुट्टिमाम्। ददृशुर्नैर्ऋतव्याघ्राः शयानं भीमविक्रमम्
ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम्। कुम्भकर्णं महानिद्रं समेताः प्रत्यबोधयन्
ऊर्ध्वलोमाञ्चिततनुं श्वसन्तमिव पन्नगम्। भ्रामयन्तं विनिःश्वासैः शयानं भीमविक्रमम्
भीमनासापुटं तं तु पातालविपुलाननम्। शयने न्यस्तसर्वाङ्गं मेदोरुधिरगन्धिनम्
काञ्चनाङ्गदनद्धाङ्गं किरीटेनार्कवर्चसम्। ददृशुर्नैर्ऋतव्याघ्रं कुम्भकर्णमरिंदमम्
ततश्चक्रुर्महात्मानः कुम्भकर्णस्य चाग्रतः। भूतानां मेरुसंकाशं राशिं परमतर्पणम्
मृगाणां महिषाणां च वराहाणां च संचयान्। चक्रुर्नैर्ऋतशार्दूला राशिमन्नस्य चाद्भुतम्
ततः शोणितकुम्भांश्च मांसानि विविधानि च। पुरस्तात् कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः
लिलिपुश्च परार्घ्येन चन्दनेन परंतपम्। दिव्यैराश्वासयामासुर्माल्यैर्गन्धैश्च गन्धिभिः
धूपगन्धांश्च ससृजुस्तुष्टुवुश्च परंतपम्। जलदा इव चानेदुर्यातुधानास्ततस्ततः
शङ्खांश्च पूरयामासुः शशाङ्कसदृशप्रभान्। तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः
नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः। कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वरम्
सशङ्खभेरीपणवप्रणादं सास्फोटितक्ष्वेलितसिंहनादम्। दिशो द्रवन्तस्त्रिदिवं किरन्तः श्रुत्वा विहंगाः सहसा निपेतुः
यदा भृशं तैर्निनदैर्महात्मा न कुम्भकर्णो बुबुधे प्रसुप्तः। ततो भुशुण्डीर्मुसलानि सर्वे रक्षोगणास्ते जगृहुर्गदाश्च
तं शैलशृङ्गैर्मुसलैर्गदाभि- र्वक्षःस्थले मुद्गरमुष्टिभिश्च। सुखप्रसुप्तं भुवि कुम्भकर्णं रक्षांस्युदग्राणि तदा निजघ्नुः