स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः। भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः
मातंग इव सिंहेन गरुडेनेव पन्नगः। अभिभूतोऽभवद् राजा राघवेण महात्मना
ब्रह्मदण्डप्रतीकानां विद्युच्चलितवर्चसाम्। स्मरन् राघवबाणानां विव्यथे राक्षसेश्वरः
स काञ्चनमयं दिव्यमाश्रित्य परमासनम्। विप्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत्
सर्वं तत् खलु मे मोघं यत् तप्तं परमं तपः। यत् समानो महेन्द्रेण मानुषेण विनिर्जितः
इदं तद् ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम्। मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः। अवध्यत्वं मया प्रोक्तं मानुषेभ्यो न याचितम्
तमिमं मानुषं मन्ये रामं दशरथात्मजम्। इक्ष्वाकुकुलजातेन अनरण्येन यत् पुरा
उत्पत्स्यति हि मद्वंशपुरुषो राक्षसाधम। यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम्
निहनिष्यति संग्रामे त्वां कुलाधम दुर्मते। शप्तोऽहं वेदवत्या च यथा सा धर्षिता पुरा
सेयं सीता महाभागा जाता जनकनन्दिनी। उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका
यथोक्तास्तन्मया प्राप्तं न मिथ्या ऋषिभाषितम्। एतदेव समागम्य यत्नं कर्तुमिहार्हथ
राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु। स चाप्रतिमगाम्भीर्यो देवदानवदर्पहा
ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम्। समरे जितमात्मानं प्रहस्तं च निषूदितम्
ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः। द्वारेषु यत्नः क्रियतां प्राकारश्चाधिरुह्यताम्
निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम्। सुखं स्वपिति निश्चिन्तः कामोपहतचेतनः
नव सप्त दशाष्टौ च मासान् स्वपिति राक्षसः। मन्त्रं कृत्वा प्रसुप्तोऽयमितस्तु नवमेऽहनि
तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम्। स हि संख्ये महाबाहुः ककुदं सर्वरक्षसाम्। वानरान् राजपुत्रौ च क्षिप्रमेव हनिष्यति
एष केतुः परं संख्ये मुख्यो वै सर्वरक्षसाम्। कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः
रामेणाभिनिरस्तस्य संग्रामेऽस्मिन् सुदारुणे। भविष्यति न मे शोकः कुम्भकर्णे विबोधिते
किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि। ईदृशे व्यसने घोरे यो न साह्याय कल्पते
ते तु तद् वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः। जग्मुः परमसम्भ्रान्ताः कुम्भकर्णनिवेशनम्
ते रावणसमादिष्टा मांसशोणितभोजनाः। गन्धं माल्यं महद्भक्ष्यमादाय सहसा ययुः
तां प्रविश्य महाद्वारां सर्वतो योजनायताम्। कुम्भकर्णगुहां रम्यां पुष्पगन्धप्रवाहिनीम्
कुम्भकर्णस्य निःश्वासादवधूता महाबलाः। प्रतिष्ठमानाः कृच्छ्रेण यत्नात् प्रविविशुर्गुहाम्
तां प्रविश्य गुहां रम्यां रत्नकाञ्चनकुट्टिमाम्। ददृशुर्नैर्ऋतव्याघ्राः शयानं भीमविक्रमम्
ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम्। कुम्भकर्णं महानिद्रं समेताः प्रत्यबोधयन्
ऊर्ध्वलोमाञ्चिततनुं श्वसन्तमिव पन्नगम्। भ्रामयन्तं विनिःश्वासैः शयानं भीमविक्रमम्
भीमनासापुटं तं तु पातालविपुलाननम्। शयने न्यस्तसर्वाङ्गं मेदोरुधिरगन्धिनम्
काञ्चनाङ्गदनद्धाङ्गं किरीटेनार्कवर्चसम्। ददृशुर्नैर्ऋतव्याघ्रं कुम्भकर्णमरिंदमम्