ज्याशब्दमकरोत् तीव्रं वज्रनिष्पेषनिष्ठुरम्। गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह
तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम्। क्व नु राक्षसशार्दूल गत्वा मोक्षमवाप्स्यसि
यदीन्द्रवैवस्वतभास्करान् वा स्वयंभुवैश्वानरशंकरान् वा। गमिष्यसि त्वं दशधा दिशो वा तथापि मे नाद्य गतो विमोक्ष्यसे
यश्चैष शक्त्या निहतस्त्वयाद्य गच्छन् विषादं सहसाभ्युपेत्य। स एष रक्षोगणराज मृत्युः सपुत्रपौत्रस्य तवाद्य युद्धे
एतेन चात्यद्भुतदर्शनानि शरैर्जनस्थानकृतालयानि। चतुर्दशान्यात्तवरायुधानि रक्षःसहस्राणि निषूदितानि
राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाबलः। वायुपुत्रं महावेगं वहन्तं राघवं रणे
रोषेण महताऽऽविष्टः पूर्ववैरमनुस्मरन्। आजघान शरैर्दीप्तैः कालानलशिखोपमैः
राक्षसेनाहवे तस्य ताडितस्यापि सायकैः। स्वभावतेजोयुक्तस्य भूयस्तेजोऽभ्यवर्धत
ततो रामो महातेजा रावणेन कृतव्रणम्। दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशमेयिवान्
तस्याभिसंक्रम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम्। ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शितैः शराग्रैः
अथेन्द्रशत्रुं तरसा जघान बाणेन वज्राशनिसंनिभेन। भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवानिवेन्द्रः
यो वज्रपाताशनिसंनिपाता- न्न चुक्षुभे नापि चचाल राजा। स रामबाणाभिहतो भृशार्त- श्चचाल चापं च मुमोच वीरः
तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम्। तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोधिपतेर्महात्मा
तं निर्विषाशीविषसंनिकाशं शान्तार्चिषं सूर्यमिवाप्रकाशम्। गतश्रियं कृत्तकिरीटकूट- मुवाच रामो युधि राक्षसेन्द्रम्
कृतं त्वया कर्म महत् सुभीमं हतप्रवीरश्च कृतस्त्वयाहम्। तस्मात् परिश्रान्त इति व्यवस्य न त्वां शरैर्मृत्युवशं नयामि
प्रयाहि जानामि रणार्दितस्त्वं प्रविश्य रात्रिंचरराज लङ्काम्। आश्वस्य निर्याहि रथी च धन्वी तदा बलं प्रेक्ष्यसि मे रथस्थः
स एवमुक्तो हतदर्पहर्षो निकृत्तचापः स हताश्वसूतः। शरार्दितो भग्नमहाकिरीटो विवेश लङ्कां सहसा स्म राजा
तस्मिन् प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ। हरीन् विशल्यान् सह लक्ष्मणेन चकार रामः परमाहवाग्रे
तस्मिन् प्रभग्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश्च। ससागराः सर्षिमहोरगाश्च तथैव भूम्यम्बुचराः प्रहृष्टाः
thumb|षष्टितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षष्टितमः सर्गः ॥६-
स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः। भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः
मातंग इव सिंहेन गरुडेनेव पन्नगः। अभिभूतोऽभवद् राजा राघवेण महात्मना
ब्रह्मदण्डप्रतीकानां विद्युच्चलितवर्चसाम्। स्मरन् राघवबाणानां विव्यथे राक्षसेश्वरः
स काञ्चनमयं दिव्यमाश्रित्य परमासनम्। विप्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत्
सर्वं तत् खलु मे मोघं यत् तप्तं परमं तपः। यत् समानो महेन्द्रेण मानुषेण विनिर्जितः
इदं तद् ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम्। मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः। अवध्यत्वं मया प्रोक्तं मानुषेभ्यो न याचितम्
तमिमं मानुषं मन्ये रामं दशरथात्मजम्। इक्ष्वाकुकुलजातेन अनरण्येन यत् पुरा
उत्पत्स्यति हि मद्वंशपुरुषो राक्षसाधम। यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम्
निहनिष्यति संग्रामे त्वां कुलाधम दुर्मते। शप्तोऽहं वेदवत्या च यथा सा धर्षिता पुरा