स तां सधूमानलसंनिकाशां वित्रासनां संयति वानराणाम्। चिक्षेप शक्तिं तरसा ज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः
तामापतन्तीं भरतानुजोऽस्त्रै- र्जघान बाणैश्च हुताग्निकल्पैः। तथापि सा तस्य विवेश शक्ति- र्भुजान्तरं दाशरथेर्विशालम्
स शक्तिमाञ् शक्तिसमाहतः सन् जज्वाल भूमौ स रघुप्रवीरः। तं विह्वलन्तं सहसाभ्युपेत्य जग्राह राजा तरसा भुजाभ्याम्
हिमवान् मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः। शक्यं भुजाभ्यामुद्धर्तुं न शक्यो भरतानुजः
शक्त्या ब्राह्म्या तु सौमित्रिस्ताडितोऽपि स्तनान्तरे। विष्णोरमीमांस्यभागमात्मानं प्रत्यनुस्मरत्
ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः। तं पीडयित्वा बाहुभ्यां न प्रभुर्लङ्घनेऽभवत्
ततः क्रुद्धो वायुसुतो रावणं समभिद्रवत्। आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना
तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः। जानुभ्यामगमद् भूमौ चचाल च पपात च
आस्यैश्च नेत्रैः श्रवणैः पपात रुधिरं बहु। विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत्
विसंज्ञो मूर्च्छितश्चासीन्न च स्थानं समालभत्। विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम्
ऋषयो वानराश्चैव नेदुर्देवाश्च सासुराः। हनूमानथ तेजस्वी लक्ष्मणं रावणार्दितम्
आनयद् राघवाभ्याशं बाहुभ्यां परिगृह्य तम्। वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः। शत्रूणामप्यकम्प्योऽपि लघुत्वमगमत् कपेः
तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि निर्जितम्। रावणस्य रथे तस्मिन् स्थानं पुनरुपागमत्
रावणोऽपि महातेजाः प्राप्य संज्ञां महाहवे। आददे निशितान् बाणाञ्जग्राह च महद्धनुः
आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः। विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन्
निपातितमहावीरां वानराणां महाचमूम्। राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत्
अथैनमनुसंक्रम्य हनूमान् वाक्यमब्रवीत्। मम पृष्ठं समारुह्य राक्षसं शास्तुमर्हसि
विष्णुर्यथा गरुत्मन्तमारुह्यामरवैरिणम्। तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम्
अथारुरोह सहसा हनूमन्तं महाकपिम्। रथस्थं रावणं संख्ये ददर्श मनुजाधिपः
तमालोक्य महातेजाः प्रदुद्राव स रावणम्। वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः
ज्याशब्दमकरोत् तीव्रं वज्रनिष्पेषनिष्ठुरम्। गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह
तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम्। क्व नु राक्षसशार्दूल गत्वा मोक्षमवाप्स्यसि
यदीन्द्रवैवस्वतभास्करान् वा स्वयंभुवैश्वानरशंकरान् वा। गमिष्यसि त्वं दशधा दिशो वा तथापि मे नाद्य गतो विमोक्ष्यसे
यश्चैष शक्त्या निहतस्त्वयाद्य गच्छन् विषादं सहसाभ्युपेत्य। स एष रक्षोगणराज मृत्युः सपुत्रपौत्रस्य तवाद्य युद्धे
एतेन चात्यद्भुतदर्शनानि शरैर्जनस्थानकृतालयानि। चतुर्दशान्यात्तवरायुधानि रक्षःसहस्राणि निषूदितानि
राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाबलः। वायुपुत्रं महावेगं वहन्तं राघवं रणे
रोषेण महताऽऽविष्टः पूर्ववैरमनुस्मरन्। आजघान शरैर्दीप्तैः कालानलशिखोपमैः
राक्षसेनाहवे तस्य ताडितस्यापि सायकैः। स्वभावतेजोयुक्तस्य भूयस्तेजोऽभ्यवर्धत
ततो रामो महातेजा रावणेन कृतव्रणम्। दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशमेयिवान्
तस्याभिसंक्रम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम्। ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शितैः शराग्रैः