स तान् वृक्षान् समासाद्य प्रतिचिच्छेद रावणः। अभ्यवर्षच्च घोरेण शरवर्षेण पावकिम्
अभिवृष्टः शरौघेण मेघेनेव महाचलः। ह्रस्वं कृत्वा ततो रूपं ध्वजाग्रे निपपात ह
पावकात्मजमालोक्य ध्वजाग्रे समवस्थितम्। जज्वाल रावणः क्रोधात् ततो नीलो ननाद च
ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम्। लक्ष्मणोऽथ हनूमांश्च रामश्चापि सुविस्मिताः
रावणोऽपि महातेजाः कपिलाघवविस्मितः। अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम्
ततस्ते चुक्रुशुर्हृष्टा लब्धलक्षाः प्लवंगमाः। नीललाघवसम्भ्रान्तं दृष्ट्वा रावणमाहवे
वानराणां च नादेन संरब्धो रावणस्तदा। सम्भ्रमाविष्टहृदयो न किंचित् प्रत्यपद्यत
आग्नेयेनापि संयुक्तं गृहीत्वा रावणः शरम्। ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः
ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः। कपे लाघवयुक्तोऽसि मायया परया सह
जीवितं खलु रक्षस्व यदि शक्तोऽसि वानर। तानि तान्यात्मरूपाणि सृजसि त्वमनेकशः
तथापि त्वां मया मुक्तः सायकोऽस्त्रप्रयोजितः। जीवितं परिरक्षन्तं जीविताद् भ्रंशयिष्यति
एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः। संधाय बाणमस्त्रेण चमूपतिमताडयत्
सोऽस्त्रमुक्तेन बाणेन नीलो वक्षसि ताडितः। निर्दह्यमानः सहसा स पपात महीतले
पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा। जानुभ्यामपतद् भूमौ न तु प्राणैर्वियुज्यत
विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः। रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे
आसाद्य रणमध्ये तं वारयित्वा स्थितो ज्वलन्। धनुर्विस्फारयामास राक्षसेन्द्रः प्रतापवान्
तमाह सौमित्रिरदीनसत्त्वो विस्फारयन्तं धनुरप्रमेयम्। अवेहि मामद्य निशाचरेन्द्र न वानरांस्त्वं प्रतियोद्धुमर्हसि
स तस्य वाक्यं प्रतिपूर्णघोषं ज्याशब्दमुग्रं च निशम्य राजा। आसाद्य सौमित्रिमुपस्थितं तं रोषान्वितं वाचमुवाच रक्षः
दिष्ट्यासि मे राघव दृष्टिमार्गं प्राप्तोऽन्तगामी विपरीतबुद्धिः। अस्मिन् क्षणे यास्यसि मृत्युलोकं संसाद्यमानो मम बाणजालैः
तमाह सौमित्रिरविस्मयानो गर्जन्तमुद्वृत्तशिताग्रदंष्ट्रम्। राजन् न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ
जानामि वीर्यं तव राक्षसेन्द्र बलं प्रतापं च पराक्रमं च। अवस्थितोऽहं शरचापपाणि- रागच्छ किं मोघविकत्थनेन
स एवमुक्तः कुपितः ससर्ज रक्षोधिपः सप्त शरान् सुपुङ्खान्। ताँल्लक्ष्मणः काञ्चनचित्रपुङ्खै- श्चिच्छेद बाणैर्निशिताग्रधारैः
तान् प्रेक्षमाणः सहसा निकृत्तान् निकृत्तभोगानिव पन्नगेन्द्रान्। लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान् निशितान् पृषत्कान्
स बाणवर्षं तु ववर्ष तीव्रं रामानुजः कार्मुकसम्प्रयुक्तम्। क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च
स बाणजालान्यपि तानि तानि मोघानि पश्यंस्त्रिदशारिराजः। विसिस्मिये लक्ष्मणलाघवेन पुनश्च बाणान् निशितान् मुमोच
स लक्ष्मणश्चापि शिताञ् शिताग्रान् महेन्द्रतुल्योऽशनिभीमवेगान्। संधाय चापे ज्वलनप्रकाशान् ससर्ज रक्षोधिपतेर्वधाय
स तान् प्रचिच्छेद हि राक्षसेन्द्रः शिताञ् शराल्ँ लक्ष्मणमाजघान। शरेण कालाग्निसमप्रभेण स्वयंभुदत्तेन ललाटदेशे
स लक्ष्मणो रावणसायकार्त- श्चचाल चापं शिथिलं प्रगृह्य। पुनश्च संज्ञां प्रतिलभ्य कृच्छ्रा- च्चिच्छेद चापं त्रिदशेन्द्रशत्रोः
निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शिताग्रैः। स सायकार्तो विचचाल राजा कृच्छ्राच्च संज्ञां पुनराससाद
स कृत्तचापः शरताडितश्च मेदार्द्रगात्रो रुधिरावसिक्तः। जग्राह शक्तिं स्वयमुग्रशक्तिः स्वयंभुदत्तां युधि देवशत्रुः