संरक्तनयनो यत्नान्मुष्टिमावृत्य दक्षिणम्। पातयामास वेगेन वानरोरसि वीर्यवान्
हनूमान् वक्षसि व्यूढे संचचाल पुनः पुनः। विह्वलं तु तदा दृष्ट्वा हनूमन्तं महाबलम्
रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात्। राक्षसानामधिपतिर्दशग्रीवः प्रतापवान्
पन्नगप्रतिमैर्भीमैः परमर्माभिभेदनैः। शरैरादीपयामास नीलं हरिचमूपतिम्
स शरौघसमायस्तो नीलो हरिचमूपतिः। करेणैकेन शैलाग्रं रक्षोधिपतयेऽसृजत्
हनूमानपि तेजस्वी समाश्वस्तो महामनाः। विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत्
नीलेन सह संयुक्तं रावणं राक्षसेश्वरम्। अन्येन युध्यमानस्य न युक्तमभिधावनम्
रावणोऽथ महातेजास्तं शृङ्गं सप्तभिः शरैः। आजघान सुतीक्ष्णाग्रैस्तद् विकीर्णं पपात ह
तद् विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः। कालाग्निरिव जज्वाल कोपेन परवीरहा
सोऽश्वकर्णद्रुमान् शालांश्चूतांश्चापि सुपुष्पितान्। अन्यांश्च विविधान् वृक्षान् नीलश्चिक्षेप संयुगे
स तान् वृक्षान् समासाद्य प्रतिचिच्छेद रावणः। अभ्यवर्षच्च घोरेण शरवर्षेण पावकिम्
अभिवृष्टः शरौघेण मेघेनेव महाचलः। ह्रस्वं कृत्वा ततो रूपं ध्वजाग्रे निपपात ह
पावकात्मजमालोक्य ध्वजाग्रे समवस्थितम्। जज्वाल रावणः क्रोधात् ततो नीलो ननाद च
ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम्। लक्ष्मणोऽथ हनूमांश्च रामश्चापि सुविस्मिताः
रावणोऽपि महातेजाः कपिलाघवविस्मितः। अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम्
ततस्ते चुक्रुशुर्हृष्टा लब्धलक्षाः प्लवंगमाः। नीललाघवसम्भ्रान्तं दृष्ट्वा रावणमाहवे
वानराणां च नादेन संरब्धो रावणस्तदा। सम्भ्रमाविष्टहृदयो न किंचित् प्रत्यपद्यत
आग्नेयेनापि संयुक्तं गृहीत्वा रावणः शरम्। ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः
ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः। कपे लाघवयुक्तोऽसि मायया परया सह
जीवितं खलु रक्षस्व यदि शक्तोऽसि वानर। तानि तान्यात्मरूपाणि सृजसि त्वमनेकशः
तथापि त्वां मया मुक्तः सायकोऽस्त्रप्रयोजितः। जीवितं परिरक्षन्तं जीविताद् भ्रंशयिष्यति
एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः। संधाय बाणमस्त्रेण चमूपतिमताडयत्
सोऽस्त्रमुक्तेन बाणेन नीलो वक्षसि ताडितः। निर्दह्यमानः सहसा स पपात महीतले
पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा। जानुभ्यामपतद् भूमौ न तु प्राणैर्वियुज्यत
विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः। रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे
आसाद्य रणमध्ये तं वारयित्वा स्थितो ज्वलन्। धनुर्विस्फारयामास राक्षसेन्द्रः प्रतापवान्
तमाह सौमित्रिरदीनसत्त्वो विस्फारयन्तं धनुरप्रमेयम्। अवेहि मामद्य निशाचरेन्द्र न वानरांस्त्वं प्रतियोद्धुमर्हसि
स तस्य वाक्यं प्रतिपूर्णघोषं ज्याशब्दमुग्रं च निशम्य राजा। आसाद्य सौमित्रिमुपस्थितं तं रोषान्वितं वाचमुवाच रक्षः
दिष्ट्यासि मे राघव दृष्टिमार्गं प्राप्तोऽन्तगामी विपरीतबुद्धिः। अस्मिन् क्षणे यास्यसि मृत्युलोकं संसाद्यमानो मम बाणजालैः
तमाह सौमित्रिरविस्मयानो गर्जन्तमुद्वृत्तशिताग्रदंष्ट्रम्। राजन् न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ