तच्छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय। तमापतन्तं सहसा समीक्ष्य चिच्छेद बाणैस्तपनीयपुङ्खैः
तस्मिन् प्रवृद्धोत्तमसानुवृक्षे शृङ्गे विदीर्णे पतिते पृथिव्याम्। महाहिकल्पं शरमन्तकाभं समादधे राक्षसलोकनाथः
स तं गृहीत्वानिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम्। बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः
स सायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुःप्रकाशम्। सुग्रीवमासाद्य बिभेद वेगाद् गुहेरिता क्रौञ्चमिवोग्रशक्तिः
स सायकार्तो विपरीतचेताः कूजन् पृथिव्यां निपपात वीरः। तं वीक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टा युधि यातुधानाः
ततो गवाक्षो गवयः सुषेण- स्त्वथर्षभो ज्योतिमुखो नलश्च। शैलान् समुत्पाट्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम्
तेषां प्रहारान् स चकार मोघान् रक्षोधिपो बाणशतैः शिताग्रैः। तान् वानरेन्द्रानपि बाणजालै- र्बिभेद जाम्बूनदचित्रपुङ्खैः
ते वानरेन्द्रास्त्रिदशारिबाणै- र्भिन्ना निपेतुर्भुवि भीमकायाः। ततस्तु तद् वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः
ते वध्यमानाः पतिताश्च वीरा नानद्यमाना भयशल्यविद्धाः। शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम्
ततो महात्मा स धनुर्धनुष्मा- नादाय रामः सहसा जगाम। तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच रामं परमार्थयुक्तम्
काममार्य सुपर्याप्तो वधायास्य दुरात्मनः। विधमिष्याम्यहं चैतमनुजानीहि मां विभो
तमब्रवीन्महातेजा रामः सत्यपराक्रमः। गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे
रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः। त्रैलोक्येनापि संक्रुद्धो दुष्प्रसह्यो न संशयः
तस्यच्छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय। चक्षुषा धनुषाऽऽत्मानं गोपायस्व समाहितः
राघवस्य वचः श्रुत्वा सम्परिष्वज्य पूज्य च। अभिवाद्य च रामाय ययौ सौमित्रिराहवे
स रावणं वारणहस्तबाहुं ददर्श भीमोद्यतदीप्तचापम्। प्रच्छादयन्तं शरवृष्टिजालै- स्तान् वानरान् भिन्नविकीर्णदेहान्
तमालोक्य महातेजा हनूमान् मारुतात्मजः। निवार्य शरजालानि विदुद्राव स रावणम्
रथं तस्य समासाद्य बाहुमुद्यम्य दक्षिणम्। त्रासयन् रावणं धीमान् हनूमान् वाक्यमब्रवीत्
देवदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः। अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम्
एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः। विधमिष्यति ते देहे भूतात्मानं चिरोषितम्
श्रुत्वा हनूमतो वाक्यं रावणो भीमविक्रमः। संरक्तनयनः क्रोधादिदं वचनमब्रवीत्
क्षिप्रं प्रहर निःशङ्कं स्थिरां कीर्तिमवाप्नुहि। ततस्त्वां ज्ञातविक्रान्तं नाशयिष्यामि वानर
एवमुक्तो महातेजा रावणो राक्षसेश्वरः। आजघानानिलसुतं तलेनोरसि वीर्यवान्
स तलाभिहतस्तेन चचाल च मुहुर्मुहुः। स्थितो मुहूर्तं तेजस्वी स्थैर्यं कृत्वा महामतिः
आजघान च संक्रुद्धस्तलेनैवामरद्विषम्। ततः स तेनाभिहतो वानरेण महात्मना
दशग्रीवः समाधूतो यथा भूमितलेऽचलः। संग्रामे तं तथा दृष्ट्वा रावणं तलताडितम्
ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुरैः। अथाश्वस्य महातेजा रावणो वाक्यमब्रवीत्
साधु वानर वीर्येण श्लाघनीयोऽसि मे रिपुः। रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत्
धिगस्तु मम वीर्यस्य यत् त्वं जीवसि रावण। सकृत् तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे
ततस्त्वां मामको मुष्टिर्नयिष्यति यमक्षयम्। ततो मारुतिवाक्येन कोपस्तस्य प्रजज्वले