आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर्भाति रावणः। न व्यक्तं लक्षये ह्यस्य रूपं तेजःसमावृतम्
देवदानववीराणां वपुर्नैवंविधं भवेत्। यादृशं राक्षसेन्द्रस्य वपुरेतद् विराजते
सर्वे पर्वतसंकाशाः सर्वे पर्वतयोधिनः। सर्वे दीप्तायुधधरा योधास्तस्य महात्मनः
विभाति रक्षोराजोऽसौ प्रदीप्तैर्भीमदर्शनैः। भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः
दिष्ट्यायमद्य पापात्मा मम दृष्टिपथं गतः। अद्य क्रोधं विमोक्ष्यामि सीताहरणसम्भवम्
एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान्। लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम्
ततः स रक्षोधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि। द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः
इहागतं मां सहितं भवद्भि- र्वनौकसश्छिद्रमिदं विदित्वा। शून्यां पुरीं दुष्प्रसहां प्रमथ्य प्रधर्षयेयुः सहसा समेताः
विसर्जयित्वा सचिवांस्ततस्तान् गतेषु रक्षःसु यथानियोगम्। व्यदारयद् वानरसागरौघं महाझषः पूर्णमिवार्णवौघम्
तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम्। महत् समुत्पाट्य महीधराग्रं दुद्राव रक्षोधिपतिं हरीशः
तच्छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय। तमापतन्तं सहसा समीक्ष्य चिच्छेद बाणैस्तपनीयपुङ्खैः
तस्मिन् प्रवृद्धोत्तमसानुवृक्षे शृङ्गे विदीर्णे पतिते पृथिव्याम्। महाहिकल्पं शरमन्तकाभं समादधे राक्षसलोकनाथः
स तं गृहीत्वानिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम्। बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः
स सायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुःप्रकाशम्। सुग्रीवमासाद्य बिभेद वेगाद् गुहेरिता क्रौञ्चमिवोग्रशक्तिः
स सायकार्तो विपरीतचेताः कूजन् पृथिव्यां निपपात वीरः। तं वीक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टा युधि यातुधानाः
ततो गवाक्षो गवयः सुषेण- स्त्वथर्षभो ज्योतिमुखो नलश्च। शैलान् समुत्पाट्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम्
तेषां प्रहारान् स चकार मोघान् रक्षोधिपो बाणशतैः शिताग्रैः। तान् वानरेन्द्रानपि बाणजालै- र्बिभेद जाम्बूनदचित्रपुङ्खैः
ते वानरेन्द्रास्त्रिदशारिबाणै- र्भिन्ना निपेतुर्भुवि भीमकायाः। ततस्तु तद् वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः
ते वध्यमानाः पतिताश्च वीरा नानद्यमाना भयशल्यविद्धाः। शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम्
ततो महात्मा स धनुर्धनुष्मा- नादाय रामः सहसा जगाम। तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच रामं परमार्थयुक्तम्
काममार्य सुपर्याप्तो वधायास्य दुरात्मनः। विधमिष्याम्यहं चैतमनुजानीहि मां विभो
तमब्रवीन्महातेजा रामः सत्यपराक्रमः। गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे
रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः। त्रैलोक्येनापि संक्रुद्धो दुष्प्रसह्यो न संशयः
तस्यच्छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय। चक्षुषा धनुषाऽऽत्मानं गोपायस्व समाहितः
राघवस्य वचः श्रुत्वा सम्परिष्वज्य पूज्य च। अभिवाद्य च रामाय ययौ सौमित्रिराहवे
स रावणं वारणहस्तबाहुं ददर्श भीमोद्यतदीप्तचापम्। प्रच्छादयन्तं शरवृष्टिजालै- स्तान् वानरान् भिन्नविकीर्णदेहान्
तमालोक्य महातेजा हनूमान् मारुतात्मजः। निवार्य शरजालानि विदुद्राव स रावणम्
रथं तस्य समासाद्य बाहुमुद्यम्य दक्षिणम्। त्रासयन् रावणं धीमान् हनूमान् वाक्यमब्रवीत्
देवदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः। अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम्
एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः। विधमिष्यति ते देहे भूतात्मानं चिरोषितम्