स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरंगोत्तमराजियुक्तम्। प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः
स शङ्खभेरीपणवप्रणादै- रास्फोटितक्ष्वेडितसिंहनादैः । पुण्यैः स्तवैश्चापि सुपूज्यमान- स्तदा ययौ राक्षसराजमुख्यः
स शैलजीमूतनिकाशरूपै- र्मांसाशनैः पावकदीप्तनेत्रैः। बभौ वृतो राक्षसराजमुख्यो भूतैर्वृतो रुद्र इवामरेशः
ततो नगर्याः सहसा महौजा निष्क्रम्य तद् वानरसैन्यमुग्रम्। महार्णवाभ्रस्तनितं ददर्श समुद्यतं पादपशैलहस्तम्
तद् राक्षसानीकमतिप्रचण्ड- मालोक्य रामो भुजगेन्द्रबाहुः। विभीषणं शस्त्रभृतां वरिष्ठ- मुवाच सेनानुगतः पृथुश्रीः
नानापताकाध्वजछत्रजुष्टं प्रासासिशूलायुधशस्त्रजुष्टम्। कस्येदमक्षोभ्यमभीरुजुष्टं सैन्यं महेन्द्रोपमनागजुष्टम्
ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः। शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुंगवानाम्
योऽसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्त्रः। संकम्पयन्नागशिरोऽभ्युपैति ह्यकम्पनं त्वेनमवेहि राजन्
योऽसौ रथस्थो मृगराजकेतु- र्धुन्वन् धनुः शक्रधनुःप्रकाशम्। करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः
यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थोऽतिरथोऽतिवीरः। विस्फारयंश्चापमतुल्यमानं नाम्नातिकायोऽतिविवृद्धकायः
योऽसौ नवार्कोदितताम्रचक्षु- रारुह्य घण्टानिनदप्रणादम्। गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः
योऽसौ हयं काञ्चनचित्रभाण्ड- मारुह्य संध्याभ्रगिरिप्रकाशम्। प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषोऽशनितुल्यवेगः
यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किंकरवज्रवेगम्। वृषेन्द्रमास्थाय शशिप्रकाश- मायाति योऽसौ त्रिशिरा यशस्वी
असौ च जीमूतनिकाशरूपः कुम्भः पृथुव्यूढसुजातवक्षाः। समाहितः पन्नगराजकेतु- र्विस्फारयन् याति धनुर्विधुन्वन्
यश्चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं परिघं प्रगृह्य। आयाति रक्षोबलकेतुभूतो योऽसौ निकुम्भोऽद्भुतघोरकर्मा
यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम्। रथं समास्थाय विभात्युदग्रो नरान्तकोऽसौ नगशृङ्गयोधी
यश्चैष नानाविधघोररूपै- र्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्त्रैः । भूतैर्वृतो भाति विवृत्तनेत्रै- र्योऽसौ सुराणामपि दर्पहन्ता
यत्रैतदिन्दुप्रतिमं विभाति छत्रं सितं सूक्ष्मशलाकमग्र्यम्। अत्रैष रक्षोधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति
असौ किरीटी चलकुण्डलास्यो नगेन्द्रविन्ध्योपमभीमकायः। महेन्द्रवैवस्वतदर्पहन्ता रक्षोधिपः सूर्य इवावभाति
प्रत्युवाच ततो रामो विभीषणमरिंदमः। अहो दीप्तमहातेजा रावणो राक्षसेश्वरः
आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर्भाति रावणः। न व्यक्तं लक्षये ह्यस्य रूपं तेजःसमावृतम्
देवदानववीराणां वपुर्नैवंविधं भवेत्। यादृशं राक्षसेन्द्रस्य वपुरेतद् विराजते
सर्वे पर्वतसंकाशाः सर्वे पर्वतयोधिनः। सर्वे दीप्तायुधधरा योधास्तस्य महात्मनः
विभाति रक्षोराजोऽसौ प्रदीप्तैर्भीमदर्शनैः। भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः
दिष्ट्यायमद्य पापात्मा मम दृष्टिपथं गतः। अद्य क्रोधं विमोक्ष्यामि सीताहरणसम्भवम्
एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान्। लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम्
ततः स रक्षोधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि। द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः
इहागतं मां सहितं भवद्भि- र्वनौकसश्छिद्रमिदं विदित्वा। शून्यां पुरीं दुष्प्रसहां प्रमथ्य प्रधर्षयेयुः सहसा समेताः
विसर्जयित्वा सचिवांस्ततस्तान् गतेषु रक्षःसु यथानियोगम्। व्यदारयद् वानरसागरौघं महाझषः पूर्णमिवार्णवौघम्
तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम्। महत् समुत्पाट्य महीधराग्रं दुद्राव रक्षोधिपतिं हरीशः