हते तस्मिंश्चमूमुख्ये राक्षसास्ते निरुद्यमाः। रक्षःपतिगृहं गत्वा ध्यानमूकत्वमागताः
प्राप्ताः शोकार्णवं तीव्रं विसंज्ञा इव तेऽभवन्
ततस्तु नीलो विजयी महाबलः प्रशस्यमानः सुकृतेन कर्मणा। समेत्य रामेण सलक्ष्मणेन प्रहृष्टरूपस्तु बभूव यूथपः
thumb|एकोनषष्टितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनषष्टितमः सर्गः ॥६-
तस्मिन् हते राक्षससैन्यपाले प्लवंगमानामृषभेण युद्धे। भीमायुधं सागरवेगतुल्यं विदुद्रुवे राक्षसराजसैन्यम्
गत्वा तु रक्षोधिपतेः शशंसुः सेनापतिं पावकसूनुशस्तम्। तच्चापि तेषां वचनं निशम्य रक्षोधिपः क्रोधवशं जगाम
संख्ये प्रहस्तं निहतं निशम्य क्रोधार्दितः शोकपरीतचेताः। उवाच तान् राक्षसयूथमुख्या- निन्द्रो यथा निर्जरयूथमुख्यान्
नावज्ञा रिपवे कार्या यैरिन्द्रबलसादनः। सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः
सोऽहं रिपुविनाशाय विजयायाविचारयन्। स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम्
अद्य तद् वानरानीकं रामं च सहलक्ष्मणम्। निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः। अद्य संतर्पयिष्यामि पृथिवीं कपिशोणितैः
स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरंगोत्तमराजियुक्तम्। प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः
स शङ्खभेरीपणवप्रणादै- रास्फोटितक्ष्वेडितसिंहनादैः । पुण्यैः स्तवैश्चापि सुपूज्यमान- स्तदा ययौ राक्षसराजमुख्यः
स शैलजीमूतनिकाशरूपै- र्मांसाशनैः पावकदीप्तनेत्रैः। बभौ वृतो राक्षसराजमुख्यो भूतैर्वृतो रुद्र इवामरेशः
ततो नगर्याः सहसा महौजा निष्क्रम्य तद् वानरसैन्यमुग्रम्। महार्णवाभ्रस्तनितं ददर्श समुद्यतं पादपशैलहस्तम्
तद् राक्षसानीकमतिप्रचण्ड- मालोक्य रामो भुजगेन्द्रबाहुः। विभीषणं शस्त्रभृतां वरिष्ठ- मुवाच सेनानुगतः पृथुश्रीः
नानापताकाध्वजछत्रजुष्टं प्रासासिशूलायुधशस्त्रजुष्टम्। कस्येदमक्षोभ्यमभीरुजुष्टं सैन्यं महेन्द्रोपमनागजुष्टम्
ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः। शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुंगवानाम्
योऽसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्त्रः। संकम्पयन्नागशिरोऽभ्युपैति ह्यकम्पनं त्वेनमवेहि राजन्
योऽसौ रथस्थो मृगराजकेतु- र्धुन्वन् धनुः शक्रधनुःप्रकाशम्। करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः
यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थोऽतिरथोऽतिवीरः। विस्फारयंश्चापमतुल्यमानं नाम्नातिकायोऽतिविवृद्धकायः
योऽसौ नवार्कोदितताम्रचक्षु- रारुह्य घण्टानिनदप्रणादम्। गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः
योऽसौ हयं काञ्चनचित्रभाण्ड- मारुह्य संध्याभ्रगिरिप्रकाशम्। प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषोऽशनितुल्यवेगः
यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किंकरवज्रवेगम्। वृषेन्द्रमास्थाय शशिप्रकाश- मायाति योऽसौ त्रिशिरा यशस्वी
असौ च जीमूतनिकाशरूपः कुम्भः पृथुव्यूढसुजातवक्षाः। समाहितः पन्नगराजकेतु- र्विस्फारयन् याति धनुर्विधुन्वन्
यश्चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं परिघं प्रगृह्य। आयाति रक्षोबलकेतुभूतो योऽसौ निकुम्भोऽद्भुतघोरकर्मा
यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम्। रथं समास्थाय विभात्युदग्रो नरान्तकोऽसौ नगशृङ्गयोधी
यश्चैष नानाविधघोररूपै- र्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्त्रैः । भूतैर्वृतो भाति विवृत्तनेत्रै- र्योऽसौ सुराणामपि दर्पहन्ता
यत्रैतदिन्दुप्रतिमं विभाति छत्रं सितं सूक्ष्मशलाकमग्र्यम्। अत्रैष रक्षोधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति
असौ किरीटी चलकुण्डलास्यो नगेन्द्रविन्ध्योपमभीमकायः। महेन्द्रवैवस्वतदर्पहन्ता रक्षोधिपः सूर्य इवावभाति
प्रत्युवाच ततो रामो विभीषणमरिंदमः। अहो दीप्तमहातेजा रावणो राक्षसेश्वरः