सा मही रुधिरौघेण प्रच्छन्ना सम्प्रकाशते। संछन्ना माधवे मासि पलाशैरिव पुष्पितैः
हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम्। शोणितौघमहातोयां यमसागरगामिनीम्
यकृत् प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम्। भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम्
गृध्रहंसवराकीर्णां कङ्कसारससेविताम्। मेदःफेनसमाकीर्णामार्तस्तनितनिःस्वनाम्
तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम्। नदीमिव घनापाये हंससारससेविताम्
राक्षसाः कपिमुख्यास्ते तेरुस्तां दुस्तरां नदीम्। यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः
ततः सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम्। ददर्श तरसा नीलो विधमन्तं प्लवंगमान्
उद्धूत इव वायुः खे महदभ्रबलं बलात्। समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः
रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे। स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे
नीलाय व्यसृजद् बाणान् प्रहस्तो वाहिनीपतिः। ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः
महीं जग्मुर्महावेगा रोषिता इव पन्नगाः। नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः
स तं परमदुर्धर्षमापतन्तं महाकपिः। प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान्
स तेनाभिहतः क्रुद्धो नर्दन् राक्षसपुंगवः। ववर्ष शरवर्षाणि प्लवंगानां चमूपतौ
तस्य बाणगणानेव राक्षसस्य दुरात्मनः। अपारयन् वारयितुं प्रत्यगृह्णान्निमीलितः। यथैव गोवृषो वर्षं शारदं शीघ्रमागतम्
एवमेव प्रहस्तस्य शरवर्षान् दुरासदान्। निमीलिताक्षः सहसा नीलः सेहे दुरासदान्
रोषितः शरवर्षेण सालेन महता महान्। प्रजघान हयान् नीलः प्रहस्तस्य महाबलः
ततो रोषपरीतात्मा धनुस्तस्य दुरात्मनः। बभञ्ज तरसा नीलो ननाद च पुनः पुनः
विधनुः स कृतस्तेन प्रहस्तो वाहिनीपतिः। प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे
तावुभौ वाहिनीमुख्यौ जातवैरौ तरस्विनौ। स्थितौ क्षतजसिक्ताङ्गौ प्रभिन्नाविव कुञ्जरौ
उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम्। सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ
विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ। काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोरिव
आजघान तदा नीलं ललाटे मुसलेन सः। प्रहस्तः परमायत्तस्ततः सुस्राव शोणितम्
ततः शोणितदिग्धाङ्गः प्रगृह्य च महातरुम्। प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः
तमचिन्त्यप्रहारं स प्रगृह्य मुसलं महत्। अभिदुद्राव बलिनं बलान्नीलं प्लवङ्गमम्
तमुग्रवेगं संरब्धमापतन्तं महाकपिः। ततः सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम्
तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः। प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत्
नीलेन कपिमुख्येन विमुक्ता महती शिला। बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा
स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः। पपात सहसा भूमौ छिन्नमूल इव द्रुमः
विभिन्नशिरसस्तस्य बहु सुस्राव शोणितम्। शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा
हते प्रहस्ते नीलेन तदकम्प्यं महाबलम्। राक्षसानामहृष्टानां लङ्कामभिजगाम ह