वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः। विवृत्तवदनाः क्रूराश्चक्रुः कर्माण्यभीतवत्
नरान्तकः कुम्भहनुर्महानादः समुन्नतः। एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः
तेषां निपततां शीघ्रं निघ्नतां चापि वानरान्। द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम्
दुर्मुखः पुनरुत्थाय कपिः सविपुलद्रुमम्। राक्षसं क्षिप्रहस्तं तु समुन्नतमपोथयत्
जाम्बवांस्तु सुसंक्रुद्धः प्रगृह्य महतीं शिलाम्। पातयामास तेजस्वी महानादस्य वक्षसि
अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान्। वृक्षेण महता सद्यः प्राणान् संत्याजयद् रणे
अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः। चकार कदनं घोरं धनुष्पाणिर्वनौकसाम्
आवर्त इव संजज्ञे सेनयोरुभयोस्तदा। क्षुभितस्याप्रमेयस्य सागरस्येव निःस्वनः
महता हि शरौघेण राक्षसो रणदुर्मदः। अर्दयामास संक्रुद्धो वानरान् परमाहवे
वानराणां शरीरैस्तु राक्षसानां च मेदिनी। बभूवातिचिता घोरैः पर्वतैरिव संवृता
सा मही रुधिरौघेण प्रच्छन्ना सम्प्रकाशते। संछन्ना माधवे मासि पलाशैरिव पुष्पितैः
हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम्। शोणितौघमहातोयां यमसागरगामिनीम्
यकृत् प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम्। भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम्
गृध्रहंसवराकीर्णां कङ्कसारससेविताम्। मेदःफेनसमाकीर्णामार्तस्तनितनिःस्वनाम्
तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम्। नदीमिव घनापाये हंससारससेविताम्
राक्षसाः कपिमुख्यास्ते तेरुस्तां दुस्तरां नदीम्। यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः
ततः सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम्। ददर्श तरसा नीलो विधमन्तं प्लवंगमान्
उद्धूत इव वायुः खे महदभ्रबलं बलात्। समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः
रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे। स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे
नीलाय व्यसृजद् बाणान् प्रहस्तो वाहिनीपतिः। ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः
महीं जग्मुर्महावेगा रोषिता इव पन्नगाः। नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः
स तं परमदुर्धर्षमापतन्तं महाकपिः। प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान्
स तेनाभिहतः क्रुद्धो नर्दन् राक्षसपुंगवः। ववर्ष शरवर्षाणि प्लवंगानां चमूपतौ
तस्य बाणगणानेव राक्षसस्य दुरात्मनः। अपारयन् वारयितुं प्रत्यगृह्णान्निमीलितः। यथैव गोवृषो वर्षं शारदं शीघ्रमागतम्
एवमेव प्रहस्तस्य शरवर्षान् दुरासदान्। निमीलिताक्षः सहसा नीलः सेहे दुरासदान्
रोषितः शरवर्षेण सालेन महता महान्। प्रजघान हयान् नीलः प्रहस्तस्य महाबलः
ततो रोषपरीतात्मा धनुस्तस्य दुरात्मनः। बभञ्ज तरसा नीलो ननाद च पुनः पुनः
विधनुः स कृतस्तेन प्रहस्तो वाहिनीपतिः। प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे
तावुभौ वाहिनीमुख्यौ जातवैरौ तरस्विनौ। स्थितौ क्षतजसिक्ताङ्गौ प्रभिन्नाविव कुञ्जरौ
उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम्। सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ