वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम्। परस्परं चाह्वयतां निनादः श्रूयते महान्
ततः प्रहस्तः कपिराजवाहिनी- मभिप्रतस्थे विजयाय दुर्मतिः। विवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम्
thumb|अष्टपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टपञ्चाशः सर्गः ॥६-
ततः प्रहस्तं निर्यान्तं दृष्ट्वा रणकृतोद्यमम्। उवाच सस्मितं रामो विभीषणमरिंदमः
क एष सुमहाकायो बलेन महता वृतः। आगच्छति महावेगः किंरूपबलपौरुषः
आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम्। राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः
एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः। लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृतः। वीर्यवानस्त्रविच्छूरः सुप्रख्यातपराक्रमः
ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम्। गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम्
ददर्श महती सेना वानराणां बलीयसाम्। अभिसंजातघोषाणां प्रहस्तमभिगर्जताम्
खड्गशक्त्यृष्टिशूलाश्च बाणानि मुसलानि च। गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः
धनूंषि च विचित्राणि राक्षसानां जयैषिणाम्। प्रगृहीतान्यराजन्त वानरानभिधावताम्
जगृहुः पादपांश्चापि पुष्पितांस्तु गिरींस्तथा। शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवंगमाः
तेषामन्योन्यमासाद्य संग्रामः सुमहानभूत्। बहूनामश्मवृष्टिं च शरवर्षं च वर्षताम्
बहवो राक्षसा युद्धे बहून् वानरपुङ्गवान्। वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून्
शूलैः प्रमथिताः केचित् केचित् तु परमायुधैः। परिघैराहताः केचित् केचिच्छिन्नाः परश्वधैः
निरुच्छ्वासाः पुनः केचित् पतिता जगतीतले। विभिन्नहृदयाः केचिदिषुसंधानसाधिताः
केचिद् द्विधा कृताः खड्गैः स्फुरन्तः पतिता भुवि। वानरा राक्षसैः शूरैः पार्श्वतश्च विदारिताः
वानरैश्चापि संक्रुद्धै राक्षसौघाः समन्ततः। पादपैर्गिरिशृङ्गैश्च सम्पिष्टा वसुधातले
वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम्। वमन् शोणितमास्येभ्यो विशीर्णदशनेक्षणाः
आर्तस्वनं च स्वनतां सिंहनादं च नर्दताम्। बभूव तुमुलः शब्दो हरीणां रक्षसामपि
वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः। विवृत्तवदनाः क्रूराश्चक्रुः कर्माण्यभीतवत्
नरान्तकः कुम्भहनुर्महानादः समुन्नतः। एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः
तेषां निपततां शीघ्रं निघ्नतां चापि वानरान्। द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम्
दुर्मुखः पुनरुत्थाय कपिः सविपुलद्रुमम्। राक्षसं क्षिप्रहस्तं तु समुन्नतमपोथयत्
जाम्बवांस्तु सुसंक्रुद्धः प्रगृह्य महतीं शिलाम्। पातयामास तेजस्वी महानादस्य वक्षसि
अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान्। वृक्षेण महता सद्यः प्राणान् संत्याजयद् रणे
अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः। चकार कदनं घोरं धनुष्पाणिर्वनौकसाम्
आवर्त इव संजज्ञे सेनयोरुभयोस्तदा। क्षुभितस्याप्रमेयस्य सागरस्येव निःस्वनः
महता हि शरौघेण राक्षसो रणदुर्मदः। अर्दयामास संक्रुद्धो वानरान् परमाहवे
वानराणां शरीरैस्तु राक्षसानां च मेदिनी। बभूवातिचिता घोरैः पर्वतैरिव संवृता