यानि देवेषु चास्त्राणि दानवेषु महर्षिषु। गन्धर्वयक्षरक्षःसु प्रतिभान्तु ममानघ
तव प्रसादाद् भवतु देवदेव ममेप्सितम्। एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा
प्राप्य चास्त्राणि देवेशाद् विश्वामित्रो महाबलः। दर्पेण महता युक्तो दर्पपूर्णोऽभवत् तदा
विवर्धमानो वीर्येण समुद्र इव पर्वणि। हतं मेने तदा राम वसिष्ठमृषिसत्तमम्
ततो गत्वाऽऽश्रमपदं मुमोचास्त्राणि पार्थिवः। यैस्तत् तपोवनं नाम निर्दग्धं चास्त्रतेजसा
उदीर्यमाणमस्त्रं तद् विश्वामित्रस्य धीमतः। दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः
वसिष्ठस्य च ये शिष्या ये च वै मृगपक्षिणः। विद्रवन्ति भयाद् भीता नानादिग्भ्यः सहस्रशः
वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः। मुहूर्तमिव निःशब्दमासीदीरिणसंनिभम्
वदतो वै वसिष्ठस्य मा भैरिति मुहुर्मुहुः। नाशयाम्यद्य गाधेयं नीहारमिव भास्करः
एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः। विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत्
आश्रमं चिरसंवृद्धं यद् विनाशितवानसि। दुराचारो हि यन्मूढस्तस्मात् त्वं न भविष्यसि
इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः। विधूम इव कालाग्निर्यमदण्डमिवापरम्
thumb|षट्पञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्पञ्चाशः सर्गः ॥१-
एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः। आग्नेयमस्त्रमुद्दिश्य तिष्ठ तिष्ठेति चाब्रवीत्
ब्रह्मदण्डं समुद्यम्य कालदण्डमिवापरम्। वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत्
क्षत्रबन्धो स्थितोऽस्म्येष यद् बलं तद् विदर्शय। नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज
क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत्। पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन
तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुत्तमम्। ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा
वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा। ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः
मानवं मोहनं चैव गान्धर्वं स्वापनं तथा। जृम्भणं मादनं चैव संतापनविलापने
शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम्। ब्रह्मपाशं कालपाशं वारुणं पाशमेव च
पिनाकमस्त्रं दयितं शुष्कार्द्रे अशनी तथा। दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च
धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च। वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा
शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा। वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम्
त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम्। एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन
वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत्। तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः
तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः। तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः
देवर्षयश्च सम्भ्रान्ता गन्धर्वाः समहोरगाः। त्रैलोक्यमासीत् संत्रस्तं ब्रह्मास्त्रे समुदीरिते
तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा। वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव
ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः। त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदारुणम्