संग्रामसज्जाः संहृष्टा धारयन् राक्षसास्तदा। सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः
रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन्। अथामन्त्र्य तु राजानं भेरीमाहत्य भैरवाम्
आरुरोह रथं युक्तः प्रहस्तः सज्जकल्पितम्। हयैर्महाजवैर्युक्तं सम्यक्सूतं सुसंयतम्
महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम्। उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम्
सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया। ततस्तं रथमास्थाय रावणार्पितशासनः
लङ्काया निर्ययौ तूर्णं बलेन महता वृतः। ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः। वादित्राणां च निनदः पूरयन्निव मेदिनीम्
शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ। निनदन्तः स्वरान् घोरान् राक्षसा जग्मुरग्रतः
भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः। नरान्तकः कुम्भहनुर्महानादः समुन्नतः। प्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम्
व्यूढेनैव सुघोरेण पूर्वद्वारात् स निर्ययौ। गजयूथनिकाशेन बलेन महता वृतः
सागरप्रतिमौघेन वृतस्तेन बलेन सः। प्रहस्तो निर्ययौ क्रुद्धः कालान्तकयमोपमः
तस्य निर्याणघोषेण राक्षसानां च नर्दताम्। लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः
व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः। मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति
वमन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे। अन्तरिक्षात् पपातोल्का वायुश्च परुषं ववौ
अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे। मेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः
ववर्षू रुधिरं चास्य सिषिचुश्च पुरःसरान्। केतुमूर्धनि गृध्रस्तु विलीनो दक्षिणामुखः
नदन्नुभयतः पार्श्वं समग्रां श्रियमाहरत्। सारथेर्बहुशश्चास्य संग्राममवगाहतः
प्रतोदो न्यपतद्धस्तात् सूतस्य हयसादिनः। निर्याणश्रीश्च या च स्याद् भास्वरा च सुदुर्लभा
सा ननाश मुहूर्तेन समे च स्खलिता हयाः। प्रहस्तं तं हि निर्यान्तं प्रख्यातगुणपौरुषम्। युधि नानाप्रहरणा कपिसेनाभ्यवर्तत
अथ घोषः सुतुमुलो हरीणां समजायत। वृक्षानारुजतां चैव गुर्वीर्वै गृह्णतां शिलाः
नदतां राक्षसानां च वानराणां च गर्जताम्। उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम्
वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम्। परस्परं चाह्वयतां निनादः श्रूयते महान्
ततः प्रहस्तः कपिराजवाहिनी- मभिप्रतस्थे विजयाय दुर्मतिः। विवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम्
thumb|अष्टपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टपञ्चाशः सर्गः ॥६-
ततः प्रहस्तं निर्यान्तं दृष्ट्वा रणकृतोद्यमम्। उवाच सस्मितं रामो विभीषणमरिंदमः
क एष सुमहाकायो बलेन महता वृतः। आगच्छति महावेगः किंरूपबलपौरुषः
आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम्। राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः
एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः। लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृतः। वीर्यवानस्त्रविच्छूरः सुप्रख्यातपराक्रमः
ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम्। गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम्
ददर्श महती सेना वानराणां बलीयसाम्। अभिसंजातघोषाणां प्रहस्तमभिगर्जताम्
खड्गशक्त्यृष्टिशूलाश्च बाणानि मुसलानि च। गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः