तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम्। ददर्श नगरीं राजा पताकाध्वजमालिनीम्
रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः। उवाचात्महितं काले प्रहस्तं युद्धकोविदम्
पुरस्योपनिविष्टस्य सहसा पीडितस्य ह। नान्ययुद्धात् प्रपश्यामि मोक्षं युद्धविशारद
अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम। इन्द्रजिद् वा निकुम्भो वा वहेयुर्भारमीदृशम्
स त्वं बलमतः शीघ्रमादाय परिगृह्य च। विजयायाभिनिर्याहि यत्र सर्वे वनौकसः
निर्याणादेव तूर्णं च चलिता हरिवाहिनी। नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति
चपला ह्यविनीताश्च चलचित्ताश्च वानराः। न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः
विद्रुते च बले तस्मिन् रामः सौमित्रिणा सह। अवशस्ते निरालम्बः प्रहस्त वशमेष्यति
आपत्संशयिता श्रेयो नात्र निःसंशयीकृता। प्रतिलोमानुलोमं वा यत् तु नो मन्यसे हितम्
रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः। राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना
राजन् मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः। विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम्
प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया। अप्रदाने पुनर्युद्धं दृष्टमेव तथैव नः
सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया। सान्त्वैश्च विविधैः काले किं न कुर्यां हितं तव
नहि मे जीवितं रक्ष्यं पुत्रदारधनानि च। त्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि
एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः। उवाचेदं बलाध्यक्षान् प्रहस्तः पुरतः स्थितान्
समानयत मे शीघ्रं राक्षसानां महाबलम्। मद्बाणानां तु वेगेन हतानां च रणाजिरे
अद्य तृप्यन्तु मांसादाः पक्षिणः काननौकसाम्। तस्य तद् वचनं श्रुत्वा बलाध्यक्षा महाबलाः
बलमुद्योजयामासुस्तस्मिन् राक्षसमन्दिरे। सा बभूव मुहूर्तेन भीमैर्नानाविधायुधैः
लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला। हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम्
आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ। स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः
संग्रामसज्जाः संहृष्टा धारयन् राक्षसास्तदा। सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः
रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन्। अथामन्त्र्य तु राजानं भेरीमाहत्य भैरवाम्
आरुरोह रथं युक्तः प्रहस्तः सज्जकल्पितम्। हयैर्महाजवैर्युक्तं सम्यक्सूतं सुसंयतम्
महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम्। उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम्
सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया। ततस्तं रथमास्थाय रावणार्पितशासनः
लङ्काया निर्ययौ तूर्णं बलेन महता वृतः। ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः। वादित्राणां च निनदः पूरयन्निव मेदिनीम्
शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ। निनदन्तः स्वरान् घोरान् राक्षसा जग्मुरग्रतः
भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः। नरान्तकः कुम्भहनुर्महानादः समुन्नतः। प्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम्
व्यूढेनैव सुघोरेण पूर्वद्वारात् स निर्ययौ। गजयूथनिकाशेन बलेन महता वृतः
सागरप्रतिमौघेन वृतस्तेन बलेन सः। प्रहस्तो निर्ययौ क्रुद्धः कालान्तकयमोपमः