तमन्तकमिव क्रुद्धं सद्रुमं प्राणहारिणम्। हनूमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः
तमापतन्तं संक्रुद्धं राक्षसानां भयावहम्। ददर्शाकम्पनो वीरश्चुक्षोभ च ननाद च
स चतुर्दशभिर्बाणैर्निशितैर्देहदारणैः। निर्बिभेद महावीर्यं हनूमन्तमकम्पनः
स तथा विप्रकीर्णस्तु नाराचैः शितशक्तिभिः। हनूमान् ददृशे वीरः प्ररूढ इव सानुमान्
विरराज महावीर्यो महाकायो महाबलः। पुष्पिताशोकसंकाशो विधूम इव पावकः
ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम्। शिरस्याभिजघानाशु राक्षसेन्द्रमकम्पनम्
स वृक्षेण हतस्तेन सक्रोधेन महात्मना। राक्षसो वानरेन्द्रेण पपात च ममार च
तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम्। व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः
त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः। लङ्कामभिययुस्त्रासाद् वानरैस्तैरभिद्रुताः
ते मुक्तकेशाः सम्भ्रान्ता भग्नमानाः पराजिताः। भयाच्छ्रमजलैरङ्गैः प्रस्रवद्भिर्विदुद्रुवुः
अन्योन्यं ये प्रमथ्नन्तो विविशुर्नगरं भयात्। पृष्ठतस्ते तु सम्मूढाः प्रेक्षमाणा मुहुर्मुहुः
तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः। समेत्य हरयः सर्वे हनूमन्तमपूजयन्
सोऽपि प्रवृद्धस्तान् सर्वान् हरीन् सम्प्रत्यपूजयत्। हनूमान् सत्त्वसम्पन्नो यथार्हमनुकूलतः
विनेदुश्च यथाप्राणं हरयो जितकाशिनः। चकृषुश्च पुनस्तत्र सप्राणानेव राक्षसान्
स वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः। महासुरं भीमममित्रनाशनं विष्णुर्यथैवोरुबलं चमूमुखे
अपूजयन् देवगणास्तदाकपिं स्वयं च रामोऽतिबलश्च लक्ष्मणः। तथैव सुग्रीवमुखाः प्लवंगमा विभीषणश्चैव महाबलस्तदा
thumb|सप्तपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तपञ्चाशः सर्गः ॥६-
अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः। किंचिद् दीनमुखश्चापि सचिवांस्तानुदैक्षत
स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च। ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः। पुरीं परिययौ लङ्कां सर्वान् गुल्मानवेक्षितुम्
तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम्। ददर्श नगरीं राजा पताकाध्वजमालिनीम्
रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः। उवाचात्महितं काले प्रहस्तं युद्धकोविदम्
पुरस्योपनिविष्टस्य सहसा पीडितस्य ह। नान्ययुद्धात् प्रपश्यामि मोक्षं युद्धविशारद
अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम। इन्द्रजिद् वा निकुम्भो वा वहेयुर्भारमीदृशम्
स त्वं बलमतः शीघ्रमादाय परिगृह्य च। विजयायाभिनिर्याहि यत्र सर्वे वनौकसः
निर्याणादेव तूर्णं च चलिता हरिवाहिनी। नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति
चपला ह्यविनीताश्च चलचित्ताश्च वानराः। न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः
विद्रुते च बले तस्मिन् रामः सौमित्रिणा सह। अवशस्ते निरालम्बः प्रहस्त वशमेष्यति
आपत्संशयिता श्रेयो नात्र निःसंशयीकृता। प्रतिलोमानुलोमं वा यत् तु नो मन्यसे हितम्
रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः। राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना
राजन् मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः। विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम्