राक्षसा हरयस्तूर्णं जघ्नुरन्योन्यमोजसा। बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमान्
हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे। राक्षसास्त्वभिसंक्रुद्धाः प्रासतोमरपाणयः
कपीन् निजघ्निरे तत्र शस्त्रैः परमदारुणैः। अकम्पनः सुसंक्रुद्धो राक्षसानां चमूपतिः
संहर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान्। हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिः
विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः। एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः
मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम्। ते तु वृक्षैर्महावीरा राक्षसानां चमूमुखे
कदनं सुमहच्चक्रुर्लीलया हरिपुंगवाः। ममन्थू राक्षसान् सर्वे नानाप्रहरणैर्भृशम्
thumb|षट्पञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षट्पञ्चाशः सर्गः ॥६-
तद् दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः। क्रोधमाहारयामास युधि तीव्रमकम्पनः
क्रोधमूिर्च्छत तरूपस्तु धुन्वन् परमकार्मुकम्। दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत्
तत्रैव तावत् त्वरितो रथं प्रापय सारथे। एते च बलिनो घ्नन्ति सुबहून् राक्षसान् रणे
एते च बलवन्तो वा भीमकोपाश्च वानराः। द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम
एतान् निहन्तुमिच्छामि समरश्लाघिनो ह्यहम्। एतैः प्रमथितं सर्वं रक्षसां दृश्यते बलम्
ततः प्रचलिताश्वेन रथेन रथिनां वरः। हरीनभ्यपतद् दूराच्छरजालैरकम्पनः
न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे। अकम्पनशरैर्भग्नाः सर्व एवाभिदुद्रुवुः
तान् मृत्युवशमापन्नानकम्पनशरानुगान्। समीक्ष्य हनुमान् ज्ञातीनुपतस्थे महाबलः
तं महाप्लवगं दृष्ट्वा सर्वे ते प्लवगर्षभाः। समेत्य समरे वीराः संहृष्टाः पर्यवारयन्
व्यवस्थितं हनूमन्तं ते दृष्ट्वा प्लवगर्षभाः। बभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः
अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम्। महेन्द्र इव धाराभिः शरैरभिववर्ष ह
अचिन्तयित्वा बाणौघान् शरीरे पातितान् कपिः। अकम्पनवधार्थाय मनो दध्रे महाबलः
स प्रहस्य महातेजा हनूमान् मारुतात्मजः। अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम्
तस्याथ नर्दमानस्य दीप्यमानस्य तेजसा। बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः
आत्मानं त्वप्रहरणं ज्ञात्वा क्रोधसमन्वितः। शैलमुत्पाटयामास वेगेन हरिपुङ्गवः
गृहीत्वा सुमहाशैलं पाणिनैकेन मारुतिः। स विनद्य महानादं भ्रामयामास वीर्यवान्
ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम्। पुरा हि नमुचिं संख्ये वज्रेणेव पुरंदरः
अकम्पनस्तु तद् दृष्ट्वा गिरिशृङ्गं समुद्यतम्। दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत्
तं पर्वताग्रमाकाशे रक्षोबाणविदारितम्। विकीर्णं पतितं दृष्ट्वा हनूमान् क्रोधमूिर्च्छतः
सोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः। तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम्
तं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः। प्रगृह्य परया प्रीत्या भ्रामयामास संयुगे
प्रधावन्नुरुवेगेन बभञ्ज तरसा द्रुमान्। हनूमान् परमक्रुद्धश्चरणैर्दारयन् महीम्