विवर्णो मुखवर्णश्च गद्गदश्चाभवत् स्वनः। अभवत् सुदिने काले दुर्दिनं रूक्षमारुतम्
ऊचुः खगमृगाः सर्वे वाचः क्रूरा भयावहाः। स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः
तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम्। तथा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः
बभूव सुमहान् नादः क्षोभयन्निव सागरम्। तेन शब्देन वित्रस्ता वानराणां महाचमूः
द्रुमशैलप्रहाराणां योद्धुं समुपतिष्ठताम्। तेषां युद्धं महारौद्रं संजज्ञे कपिरक्षसाम्
रामरावणयोरर्थे समभित्यक्तदेहिनः। सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसंनिभाः
हरयो राक्षसाश्चैव परस्परजिघांसया। तेषां विनर्दतां शब्दः संयुगेऽतितरस्विनाम्
शुश्रुवे सुमहान् कोपादन्योन्यमभिगर्जताम्। रजश्चारुणवर्णाभं सुभीममभवद् भृशम्
उद्धृतं हरिरक्षोभिः संरुरोध दिशो दश। अन्योन्यं रजसा तेन कौशेयोद्धतपाण्डुना
संवृतानि च भूतानि ददृशुर्न रणाजिरे। न ध्वजो न पताका वा चर्म वा तुरगोऽपि वा
आयुधं स्यन्दनो वापि ददृशे तेन रेणुना। शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम्
श्रूयते तुमुलो युद्धे न रूपाणि चकाशिरे। हरीनेव सुसंरुष्टा हरयो जघ्नुराहवे
राक्षसा राक्षसांश्चापि निजघ्नुस्तिमिरे तदा। ते परांश्च विनिघ्नन्तः स्वांश्च वानरराक्षसाः
रुधिरार्द्रां तदा चक्रुर्महीं पङ्कानुलेपनाम्। ततस्तु रुधिरौघेण सिक्तं ह्यपगतं रजः
शरीरशवसंकीर्णा बभूव च वसुंधरा। द्रुमशक्तिगदाप्रासैः शिलापरिघतोमरैः
राक्षसा हरयस्तूर्णं जघ्नुरन्योन्यमोजसा। बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमान्
हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे। राक्षसास्त्वभिसंक्रुद्धाः प्रासतोमरपाणयः
कपीन् निजघ्निरे तत्र शस्त्रैः परमदारुणैः। अकम्पनः सुसंक्रुद्धो राक्षसानां चमूपतिः
संहर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान्। हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिः
विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः। एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः
मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम्। ते तु वृक्षैर्महावीरा राक्षसानां चमूमुखे
कदनं सुमहच्चक्रुर्लीलया हरिपुंगवाः। ममन्थू राक्षसान् सर्वे नानाप्रहरणैर्भृशम्
thumb|षट्पञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षट्पञ्चाशः सर्गः ॥६-
तद् दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः। क्रोधमाहारयामास युधि तीव्रमकम्पनः
क्रोधमूिर्च्छत तरूपस्तु धुन्वन् परमकार्मुकम्। दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत्
तत्रैव तावत् त्वरितो रथं प्रापय सारथे। एते च बलिनो घ्नन्ति सुबहून् राक्षसान् रणे
एते च बलवन्तो वा भीमकोपाश्च वानराः। द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम
एतान् निहन्तुमिच्छामि समरश्लाघिनो ह्यहम्। एतैः प्रमथितं सर्वं रक्षसां दृश्यते बलम्
ततः प्रचलिताश्वेन रथेन रथिनां वरः। हरीनभ्यपतद् दूराच्छरजालैरकम्पनः
न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे। अकम्पनशरैर्भग्नाः सर्व एवाभिदुद्रुवुः